SearchBrowseAboutContactDonate
Page Preview
Page 644
Loading...
Download File
Download File
Page Text
________________ चतुर्दशः सर्गः । हस्तिनापुरे जनेन कृतमङ्गलानि ॥ ] प्रतिवेश्म व्यरच्यन्त चेलोत्क्षेपपुरःसरम् । साक्षादिव मुदो मुक्ताः स्वस्तिकास्तोरणानि च ॥२८९॥ प्रतिरथ्यमदीयन्त पिष्टातकपरागिणः । मूर्ता इव मनोरङ्गा विकटाः कुङ्कुमच्छटाः ॥२९०॥ असूत्र्यत भ्रमद्भृङ्गीसङ्गीतसुभगोदयः । कुसुमप्रकरो जानुदघ्नो घण्टापथक्षितौ ॥२९१॥ संबन्धोरप्यजातारे: प्रवेशाय प्रसाधनम् । पाण्डुः प्रमोदनीरन्ध्रः सैरंध्रीभिरकारयत् ॥२९२॥ यशः सम्भारसौरभ्यसुरभेर्धर्मजन्मनः । चन्दनाद्यङ्गरागोऽङ्गे पुपोष पुनरुक्तताम् ॥२९३॥ सदैवापरदुष्प्रापगुणलङ्कारधारिणः । तस्याभूवन्नलङ्काराः पित्रोर्नेत्रोत्सवः परम् ॥२९४॥ गङ्गोर्मिनिर्मले तस्य वसानस्याच्छवाससी । लवणोत्तारणं चक्रे रोमाङ्कुरपृथुः पृथा ॥२९५॥ सोऽथ तत्कालमुन्मीलद्दानमैरावणोपमम् । महेन्द्र इव गर्जन्तमारोहज्जयकुञ्जरम् ॥२९६॥ तेन साकं पुरः पाण्डुः पार्श्वतः केशवादयः । भीमाद्या बान्धवाः पृष्ठे गजारूढाः प्रतस्थिरे ॥ २९७॥ श्वेतच्छत्रापदेशेन सेव्यमानो नृपश्रिया । चारुवाराङ्गनावर्णै: सलीलोद्भूतचामरः ॥ २९८ ॥ चिरायोपचितोत्कण्ठाः श्लिष्यन्निव वदन्निव । दृशा पीयूषवर्षिण्यानुगृह्णन्नभितः प्रजाः ॥२९९॥ उद्गच्छदुच्चरोमाञ्चमञ्चलोत्तारणोत्तरम् । प्रजानां लाजनिक्षेपं प्रतिगृह्णन् समन्ततः ॥ ३००॥ प्रमोदोत्फुल्लनेत्राणां नागराणां पदे पदे । अनुरागगिरस्तास्ताः शृण्वन्नाशीःपुरःसराः ॥३०१॥ १. संबन्धोर० प्रतित्रयपाठो न सम्यक् । [६२९ 5 10 15 20 25
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy