SearchBrowseAboutContactDonate
Page Preview
Page 590
Loading...
Download File
Download File
Page Text
________________ [५७५ त्रयोदशः सर्गः । युद्धवर्णनम् ॥] सम्मुखस्याप्यसौ युद्धे जग्राह गुणमेव मे । पृथासूनोः सुवंशोत्थमितीव धनुरानमत् ॥७०५॥ एतैतत्रिजगल्लोकाः ! पश्यतार्जुनदो:कलाम् । इत्युवाचेव गाण्डीवं स्फारविस्फारकैतवात् ॥७०६॥ कर्णोत्तंसीभवत्पाणिपाणिजद्युतिकन्दलैः । कोदण्डमण्डनं प्रापदिषुरेकोऽप्यनेकताम् ॥७०७।। जिष्णोरुन्मुच्य नाराचमूर्वीभूताङ्गलिः करः । विश्वविश्वैकधन्वित्वकीर्तिहस्त इवाबभौ ॥७०८॥ क्वापि स्थेमानमन्यस्य न व्यलोकि त्वया विना । इतीवास्फालयत्प्रीता प्रकोष्ठं तस्य शिञ्जिनी ॥७०९।। स्थेयसीमिव तौ मुष्टिं बिभ्रतावपरामपि । अलक्ष्याग्रसंधानौ चित्रस्थाविव रेजतुः ॥७१०॥ भुवनाद्वैतधन्वित्वकीर्तिकोलाहलैरिव । आक्रम्यते स्म दिक्चक्रं शिञ्जिनीशिञ्जितैस्तयोः ॥७११॥ विभाव्य रणसंरम्भं मा स्म मूर्च्छन्निमाः स्त्रियः । इतीव तच्छरवातैः परितस्तरिरे दिशः ॥७१२॥ कुर्वन्तः प्रतिपक्षेण कृतस्य द्विगुणं क्षणात् । प्रथन्ते स्म मिथः स्पर्धगाथका इव तच्छराः ॥७१३॥ अवदानेषु तन्मूनि विमुक्ताः स्वर्वधूगणैः । अन्योऽन्यस्य स्रजः काण्डमण्डपेन न सेहिरे ॥७१४॥ तावुभावप्यशोभेतां शोणिताभ्यक्तविग्रहौ । स्फुटानुरागैर्वीरश्रीकटाक्षैश्छुरिता विव ॥१५॥ भूयिष्ठभूजसंभारदुःसहप्रसरास्ततः । तूर्णमौर्णविषुः कर्णमार्गणश्रेणयोऽम्बरम् ॥७१६।। न रथ्या न रथो नापि सारथिर्न च केतनः । न देहमपि पार्थस्य ददृशे तत्तिरोहितम् ॥७१७॥ १. पाणिज: नखः । २. परावपि-प्रतिद्वये । ३. पराक्रमेषु । ४. संभार:-पराक्रमः ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy