________________
४४]
[पाण्डवचरित्रमहाकाव्यम् । कुन्तीगर्भधारणम् ॥ यत्राभूत्रिजगद्दत्तशान्तिः शान्तिजिनेश्वरः । द्वेधा क्षमाभृतां चक्रे चक्रवर्ती बभूव यः ॥५३५॥ रञ्जितं भवता विश्वं स्वगुणैर्धवलैरपि । रागं गुणानुरागेण तदेषाऽपि त्वयि व्यधात् ॥५३६।। यादवेन्द्रमतिक्रम्य मया वां सङ्गमः कृतः ।। त्वमप्युर्वीश ! कुर्वीथास्तद्यत्तव कुलोचितम् ॥५३७।। इत्युदीर्य प्रयातायां तस्यां क्वापि लतान्तरे । तस्य प्रेम्णोऽनुरूपेण यथा तावप्यदीव्यताम् ॥५३८॥ मन्मथो मिथने तत्र भशमादेशकारिणि । धर्मार्थाभ्यां पुमर्थाभ्यां बहुमन्यस्तदाऽभवत् ॥५३९।। स्मरः प्राप परां कोटिमनयोरेकचित्तयोः । मूलं समरसापत्तिनिकामं काममोक्षयोः ॥५४०॥ तयोः क्रीडाजुषोः स्वैरं क्षीणा क्षणमिव क्षपा । गच्छन्कालः सुखोत्कर्षी भूयानपि न लक्ष्यते ॥५४१॥ निशि जातप्रभातायां नृपो धात्र्या व्यसृज्यत । यूनोः प्रच्छन्नसङ्गेः स्यात्तादृशां हि प्रमाणता ॥५४२।। अङ्गुलीयकमाहात्म्यान्नृपः स्वं स्थानमाययौ । अधिपश्च गभस्तीनां पूर्वशैलेन्द्रचूलिकाम् ॥५४३॥ सम्प्राप्तसङ्गमाप्रावृट्पयोदेनेव पाण्डुना । अन्तर्वत्नी विभाति स्म कुन्ती गूढाङ्कुरेव भूः ॥५४४॥ क्रमाद्धात्री तथाभूतां तां विज्ञाय विचक्षणा । किमप्यपाटवव्याजं कृत्वा छन्नमधारयत् ॥५४५॥ आविर्बभूव शौर्यं तत्तस्या गर्भप्रभावतः । बिडौजसोऽपि येनौज मन्यते स्म तृणाय सा ॥५४६।। तदा तस्याः कृताश्चर्यमौदार्यं तदजृम्भत । येन सर्वस्वदानेऽपि किं दत्तमिति खिद्यते ॥५४७॥
15.
20
25
१. -त्कर्षे प्र० द्वय० । २. नातिप्रभा प्रतिद्वय । ३. रात्रिसदृशानाम् ।