________________
त्रयोदशः सर्गः । युद्धवर्णनम् ॥]
अथ व्यावल्गदाश्वीयः सैन्ययोरुभयोरपि । उज्जजृम्भे ससंरम्भसिन्धुराधोरणो रणः ||२८७|| नीरन्ध्ररम्बरे पत्रैः सूत्रयन्तोऽब्दडम्बरम् । मिथः सङ्घट्टसम्भूतैस्तन्वन्तस्तडितोऽग्निभिः ॥२८८॥ अशीतकिरणस्यापि प्रतापमसहिष्णवः ।
द्वयानामपि वीराणां प्रेङ्खन्ति स्म शिलीमुखाः ||२८९॥ युग्मम् । शरैः शिरसि लूनेऽपि कयोरप्येकहेलया । कबन्धावप्ययुध्येतां तथैव कुपितौ मिथः ॥ २९०॥ समं निस्त्रिंशनिस्त्रिंशघातोच्छलितसङ्गते । कयोश्चिच्छिरसी व्योम्नि दन्तादन्ति वितेनतुः ॥२९१॥ कश्चिन्मौलौ विलूनेऽपि वैरिणा तरवारिणा । सकृपाणे पुनः पाणौ पातिते व्यरमद्रणात् ॥२९२॥ हते प्रसभमात्मीयकबन्धेन विरोधिनि । कस्याप्यहसदुत्फुल्लनेत्रमाल्हादतः शिरः ॥२९३॥ केषाञ्चिद्दूरमुद्भूतैः पतितेभनिपातिभिः । बभूवे मौलिभिः सभ्यैः क्रीडतामसिवर्मभिः ॥२९४॥ प्रेङ्खिताभिः शरैर्व्योम्नि पतन्तीभिरिभैः प्रेङ्खयद्भि करैर्मूर्ध्नि (र्ध) ४ भस्त्रिकाभिरदीव्यत ॥ २९५॥ पर्यणंसीत्करी कश्चित्कस्मिन्नप्युद्भटे भटे । अन्येषामीषदारोहोऽभवद्वैरिवधैषिणाम् ॥२९६॥
पुन: ।
प्रतौ० ।
आत्माधिकां गुरुः पश्यन् धनंजयधनुष्कलाम् । आचार्यान्तरसंस्कारं भृशं तस्मिन्नशङ्कत ॥ २९७॥ अर्जुनोऽपि गुरोर्वीक्ष्य चापविद्याऽनवद्यताम् । कलारोपमसाकल्यात्क्षा (का) ममात्मन्यमन्यत ॥२९८॥ शोणितारुणितैः शस्त्रव्रणौघैरनुचक्रतुः । उभे अपि बले बाढं फुल्लं कङ्केल्लिकाननम् ॥ २९९॥
[ ५४३
१. 'मुद्धूतेः' प्रत्यन्तरे । २. कृतज्ञैः । ३. चर्मभिः प्रतिद्वय । ४. प्रेखन्तीभिः शरैर्व्योम्नः
5
10
15
20
25