SearchBrowseAboutContactDonate
Page Preview
Page 533
Loading...
Download File
Download File
Page Text
________________ ५१८] [पाण्डवचरित्रमहाकाव्यम् । सैन्यद्वयस्य वर्णनम् ॥ उन्मीलति क्षुते नासां विधर्तुं धावतो जवात् । प्रिये चलति कस्याश्चित् सस्रंसे वलयं करात् ॥४७७।। प्रक्षेप्तुमनसः प्रीत्या दूर्वादि पतिमूर्द्धनि । अत्रलुप्तदृशोऽन्यस्याः पतति स्म तदन्यतः ॥४७८।। परस्याः कुशली युद्धादागच्छेरिति भारती । आपृच्छ्यमाने कान्तेऽश्रुपूरैर्निन्ये वृथार्थताम् ॥४७९।। आपृच्छय गच्छतः प्राणनाथस्य वलिताननम् । कस्याश्चित्कृपणैर्दृष्टिनिपातैनिगडायितम् ॥४८०॥ धृतधारालवैरत्वाद्युद्धश्रद्धावशादपि । दर्पाच्च दुनिमित्तानि तानि तान्यवहेलयन् ॥४८१॥ तुलामिव रविर्जेतुं जीमूतानिव पाण्डवान् । अथारोहन्महाबाहुः स्यन्दनं कुरुनन्दनः ॥४८२॥ युग्मम् । सज्जितस्वस्वयानाधिरोहिणः कवचाञ्चिताः । मूर्तिमन्त इवोत्साहाश्चापवेदा इवाङ्गिनः ॥४८३॥ द्रोणाचार्यकृपाचार्यप्रमुखाः सामवायिकाः । कनीयांसश्च दग्धारिवना दुःशासनादयः ॥४८४॥ शल्यप्राग्ज्योतिषाधीशजयद्रथपुरःसराः । भूमीभुजश्च तं मुक्तपर्यायं पर्यवीवरन् ॥४८५॥ त्रिभिर्विशेषकम् । ग्रहैरिव ग्रहाधीशः स्वयूथैरिव यूथपः । 20 पुण्डरीक इवाम्भोजैः शोभते स्म स तैर्नृपः ॥४८६॥ कातरान् विमनीकुर्वशूरान्कण्टकयंस्ततः । जजृम्भे दुन्दुभिध्वानो दिग्निकुञ्जोदरंभरिः ॥४८७॥ आधाय पुरतो भीष्मं भीष्ममिष्वासकर्मणा । कौरवीयाऽचलत्सर्वपथीना सा वरूथिनी ॥४८८॥ केतनानि पराञ्चन्ति पवनैः प्रातिलोमिकैः । कौन्तेयानीकिनीभीत्या नश्यन्तीव चकासिरे ॥४८९॥ १. धीसखः सामवायिकः [अभि० ७१९] मन्त्रणाकारिणः- अमात्याः । २. वृतः प्रतिद्वये। ३. पश्चाच्चलन्ति । 15 25
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy