________________
[५०९
द्वादशः सर्गः । कर्णस्य कोपः ॥]
राधेयस्तु प्रमादी च कृपालुश्च रणाङ्गणे । तेनार्धरथ एवायमिति मे प्रतिभासते ॥३६०॥ वचस्तदिदमाकर्ण्य कर्णयोर्विषसोदरम् । अभिधत्ते स्म राधेयः कोपकम्प्रोष्ठपल्लवः ॥३६१॥ गाङ्गेयस्य रणे यावदातिरथ्यं प्रथिष्यते । न पाण्डवैः समं तावद्धारयिष्ये धनुर्युधि ॥३६२॥ इत्युदीर्य भुजावीर्यैर्मन्यमानस्तृणं जगत् । कर्णः क्रोधान्धलोऽगच्छदुत्थायास्थानमण्डपात् ॥३६३।। गतेऽस्मिन्नसखायन्तं भीष्मोऽभाषिष्ट भूपतिम् । राजन्कोऽयमकाण्डेऽपि मुखे कष्मलिमा तव ? ॥३६४॥ प्रधने धृतधन्वाऽहं यदि कर्णेन किं तदा ? । न चेदुपात्तचापोऽस्मि राधेयेन तदाऽपि किम् ॥३६५॥ अथाभ्यधायि गान्धारीतनयेन पितामहः । चेत्प्रसीदसि मे तात ! किञ्चिद्विज्ञापयाम्यहम् ॥३६६॥ तातमेवेयमध्यास्तां रणभारधुरीणता । धराऽभ्युद्धारधौरेयः को नामान्यः फणीश्वरात् ? ॥३६७॥ तां गिरं कौरवेन्द्रस्य प्रत्यश्रौषीत्पितामहः । सेनानीत्वे तदैवायमभ्यषिच्यत चामुना ॥३६८।। अथ प्रस्थापितो राज्ञा गान्धारीतनुजन्मना । सुमेधा मागधोऽभ्येत्य पाण्डुनन्दनमभ्यधात् ॥३६९॥ राजन्दुर्वारदोर्वीर्यनिर्जितारातिमण्डलः । जल्पति त्वामिदं वीरो मगिरा कौरवाग्रणीः ॥३७०॥ त्वद्वान्तभुवः कीर्तेः संविभागमितंपचः । अहमाद्यं रणारम्भं जरासंधमयाचिषम् ॥३७१॥ तत्प्रातस्तात गाङ्गेयमाहवोत्सवदीक्षितम् । पुरस्कृत्यावतीर्णं मां द्रक्ष्यसि त्वं रणक्षितौ ॥३७२॥
१. युद्धे । २. मितं पचतीति मितंपच:-लोभवान् ।