________________
5
10
15
20
४९० ]
25
[ पाण्डवचरित्रमहाकाव्यम् । युद्धे नेमिकुमारादिनां प्रस्थानम् ॥
बालाभिरङ्गसौभाग्यविशेषवलितेक्षणम् ।
वीक्षितोऽनुक्षणं नेमिः प्रतस्थे स्यन्दनस्थितः ॥११५॥ त्रिभिर्विशेषकम् | दध्वने मधुरध्वानैरानकैरभयानकम् ।
अवामाः शिशिरास्त्यक्तपांसवो वायवो ववुः ॥११६॥
नूतनाम्भोदगम्भीरं गर्जन्ति स्म मतङ्गजाः । उत्तरङ्गास्तुरङ्गाश्च बद्धहर्षं जिहेषिरे ॥११७॥ अनीकानि तपःसूनोर्देवकीनन्दनस्य च । मुदितानि मनांसीव तदानीमेकतां ययुः ॥११८॥ यादवी-पाण्डवीया च जाह्नवी - यमुने इव । सम्भूय चेलतुः सेने गन्तुं सङ्गरसागरम् ॥११९॥ एकैकाऽपि चमूः काम्या किन्तु संवलिते उभे । शौण्डीरता च नीतिश्च यथा सञ्जातसङ्गमे ॥१२०॥ उत्खातमभूपांशुमांसलीकृतकान्तयः । प्रयाणपटहाऽऽहूता धावन्ति स्म पुराङ्गनाः ॥१२१॥ गवाक्षलक्ष्यवामाक्षीमुखैः कनकवेश्मभिः । चकाशेऽनेकशीतांशुफलैः कल्पद्रुमैरिव ॥ १२२ ॥ जनैकमुखैः सर्वैः प्रति प्रस्थानवर्तिनीम् । बभूवे सरितामोघैरिव प्रति महानदीम् ॥१२३॥ दृष्ट्वाऽमून्मा स्म भूद् भानोरवज्ञा निजवाजिषु । इतीव सप्तयः क्लृप्तवितानाः पांशुभिर्ययुः ॥१२४॥ अजैषीत्कुञ्जरश्रेणिमदकल्लोलपङ्किला । सिक्तं जम्भूरसैर्जाम्बूनदाद्रिं काञ्चनावनिः ॥१२५॥ यावकेच्छविकौशेयकिरीटविकटद्युति । उग्रग्रैवेयकक्वाणनिर्वाणानेकनिक्वणम् ॥ १२६॥ सुवर्णच्छविना साक्षात्तेजसेव निजप्रभोः । चीनांशुकेन संशोभिपृष्ठं प्रातिष्ठतौष्टकम् ॥१२७॥ युग्मम् ।
१. मिलिते । २. लक्ष प्रत्यन्तरे । ३. प्रयाणमार्गम् । ४. अश्वाः । ५. यावक:- अलक्तकः ।