SearchBrowseAboutContactDonate
Page Preview
Page 496
Loading...
Download File
Download File
Page Text
________________ द्वादशः सर्गः । जरासन्धदूतेन समुद्रविजयसभायां कथितो वृत्तान्तः ॥] [४८१ द्वादशः सर्गः ॥ 10 अथान्येधुर्जरासन्धदूतः सोमकसंज्ञकः । आगमद्विक्रमद्वीपिधारको द्वारकां पुरीम् ॥१॥ स शालस्खलितालोलतुङ्गकल्लोलशालिनि । विश्रान्तचक्षुरश्रान्तं सागरे परिखायिते ॥२॥ ऊानीतस्फुटच्छुक्तिमुक्तमुक्ताङ्कवेदिके । प्राकारे काञ्चनेऽत्युच्चैर्लोचने चरितार्थयन् ॥३॥ वेलावननभस्वद्भिरसौ वीतपथश्रमः ।। उल्लसद्विस्मयावेशविवशः प्राविशत्पुरीम् ॥४॥ त्रिभिर्विशेषकम् ॥ तां विलोक्य स निःशेषहिरण्मयनिकेतनाम् । तणाय मतिमान्मेने पुरी पौरन्दरीमपि ॥५॥ शुशोच विपणौ वीक्ष्य रत्नकूटान्स कोटिशः । मुष्टः कष्टमसौ दुष्टैरिति रत्नाकरं मुहुः ॥६॥ अथ भ्रातृभिरक्षोभ्यप्रमुखैः परिवारितम् । पुत्रैर्नेमिमहानेमिसीरिशौरिमुखैरपि ॥७॥ नमद्भूपालमौलिस्रग्मरन्दसुरभिक्रमम् । .. .. वारनारीकराम्भोजचारुचालितचामरम् ॥८॥ रत्नसिंहासनासीनं सनासीरमिवापरम । सोऽन्तःसदसमद्राक्षीत् समुद्रविजयं नृपम् ॥९॥ त्रिभिर्विशेषकम् । जरासन्धस्य भूभानोः प्रताप इव मूर्तिमान् । पर्वेव गर्वशीतांशोः सोऽग्रेनृपमुपाविशत् ॥१०॥ " १. शालः प्राकारः । २. मरन्दः मकरन्दः । ३. इन्द्रम् ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy