________________
एकादशः सर्गः । कृष्ण-कर्णयोः संवादः ॥ ]
त्वया दुर्योधनो दुर्योधन इत्यभिधीयते । दम्भोलिनैव देवेन्द्रो देवेन्द्र इति गीयते ॥ ३२३॥ दधत्यासीदकर्णैव पुनर्वीराननी॒दृशः । बिभ्रती त्वां तु भूः कर्ण ! सेकर्णेयं द्विधाऽप्यभूत् ॥३२४॥ त्वय्येवौदार्यगाम्भीर्यशौर्यधैर्यादंयो गुणाः ।
वारिधाविव रत्नानि व्योमाङ्गण इव ग्रहाः ॥३२५॥ सन्त्येव वीराः किं त्वन्यद्धीर ! वीरव्रतं तव । गिरयो गुरवाः कामं मेरोस्तु गरिमाऽपरः ॥ ३२६॥ किं तु दुर्योधने दुष्टे दुनोति तव संश्रयः । माणिक्यस्येव जात्यस्य भूषणे रौतिनिर्मिते ॥३२७॥ मित्रं करोति को नाम क्रूरकर्माणमीदृशम् ? । वयस्यीयति विश्रम्भघातिनं को हि पन्नगम् ? ॥३२८॥ कामं कृतोपकारेऽपि विश्वस्यान्न जडात्मनि । किं न सायान्त्रिकं जातु निमज्जयति नीरधिः ? || ३२९ || पुमांसमनयक्रान्तं विजहत्यात्मजा अपि । राहुग्रस्तं विवस्वन्तं मुञ्चन्ति हि मरीचयः ॥ ३३०॥ अवश्यं निपतन्त्येव पतयालुषु संश्रिताः । पतत्येव तरुः कूलंकषाकूले निपातिनि ॥३३१॥ वर्द्धन्ते तु विवर्द्धिष्णुश्रिय(या)माश्रयतः श्रियः । लक्ष्मीर्वलक्षपक्षेन्दुमरीचीनामुदित्वरी ॥ ३३२ ॥ पावयत्यन्तरात्मानं प्रणयः पुण्यशालिभिः । तरङ्गयति सौरभ्यं कर्पूरद्रुमसङ्गमः ॥३३३॥ विक्रमोऽपि स्फुरत्युच्चैः पुरतः पुण्यतेजसः । भास्वतः पुरतः कामं दीप्यते दर्पणद्युतिः ॥३३४॥ सार्वजन्येन सौजन्यं कीर्तिमावहते पराम् ।
प्राच्येन मरुता मैत्री श्लाघनीया घनस्य यत् ॥३३५॥
[ ४७५
१. पक्षे बधिरा । २. पक्षे श्रवणयुक्ता । ३. पित्तलेन निर्मिते । ४. सांयन्त्रिको, प्रतौ० । ५. वलक्षपः
शुक्लपक्षः ।
5
10
15
20
25