________________
एकादशः सर्गः । कृष्णस्य दौत्याय हस्तिनापुरे गमनम् ॥] उत्थाय विदुरोऽवादीत्ततः कुड्मलिताञ्जलिः । स्वामिंस्त्वमेव संसारपारावारान्तरीपभूः ॥२४५॥ त्वां वीक्ष्य विश्वजीवातुं जीमूतमिव नूतनम् । त्यक्तदुःखौघघर्मर्तुसंतापं मे मनोऽभवत् ॥२४६ ॥ विमुक्तिपथपाथेयकल्पमस्वल्पसौख्यदम् । तत्स्वपाणिसरोजेन व्रतं मे दातुमर्हसि ॥ २४७॥ मा कृथाः प्रतिबन्धं त्वमित्युक्ते मुनिना ततः । प्रणम्य प्रीतिपर्यश्रुर्विदुरः पुरमागमत् ॥२४८॥ ज्येष्ठं बान्धवमामन्त्र्य मध्यमं तु विशुद्धधीः । निधाय माद्यां तद्वाचा स तं मुनिमगात्पुनः ॥२४९॥ चकार सर्वसावद्यनिवृतिं च तदन्तिके । महीमप्रतिबद्धश्च विजहार समीरवत् ॥ २५० ॥ अन्येद्युर्मितसामन्तपरिच्छदविराजितः ।
देव: स कंसविध्वंसी स्वयं हास्तिनमायौ ॥२५१ ॥
मृगाङ्कमिव कायां स्तोकतारकभूषितम् । प्रत्युद्ययौ तमत्यल्पपरिवारं कुरूद्वहः ॥२५२॥ मितैरपि हरेः सैन्यैः कुरुसेना महत्यभूत् । भृशं वर्द्धयतेऽम्भोधेस्तरङ्गोऽपि तरङ्गिणीम् ॥२५३॥ अथोत्क्षिप्तपताकौघं प्रसूनप्रकराङ्कितम् । पुरं सम्भ्रान्तरम्भोरु कैटभारातिराविशत् ॥२५४॥ ततः सौधे समानीय सूत्रितस्वागतक्रियम् । तस्यां संसदि दिव्यायां न्यवीविशदमुं नृपः ॥२५५॥ रत्नसिंहासनज्योतिर्जटालिततनुद्युतिः । बभार कैटभारातिः सेन्द्रायुधघनश्रियम् ॥२५६॥ भीष्म- दुर्योधन-द्रोण-कर्ण-दुःशासनादिभिः । वृतः सधृतराष्ट्रैः स व्यभादिन्दुरिवोडुभिः ॥२५७॥
१. अन्तरीपः-द्वीपः । २. कृष्णः । ३. संभ्रान्तनारि । ४ इन्द्रायुधं विधुत् ।
[ ४६९
5
10
15
20
25