________________
एकादशः सर्गः । संजयस्य हस्तिनापुरे पुनरागमनम् ॥ ] एवमुद्गीर्य सङ्ग्रामरङ्गशौण्डैः स पाण्डवैः । विसृष्टः संजयः स्पष्टखेदोऽगान्नागसाह्वयम् ॥१४२॥ तत्र वैचित्रवीर्यस्य क्रमावानम्य सारथिः । दुर्योधनाद्युपेतस्य व्याजहार गिरं रहः ॥१४३॥ विना विश्वम्भरादानं संधानं वः किलेप्सितम् । अर्पणेनापि मेदिन्याः संधित्सन्ते न ते पुनः ॥१४४॥ पाञ्चालीचिकुराकृष्टिप्रतीकारकरालिताः । यौष्माकीणैः सह प्राणैरादित्सन्ते हि ते महीम् ॥१४५॥ एते नितान्तकान्तारवासनिर्वासितौजसः । इत्यमून्माऽवमंस्थास्त्वं कुरुभूपाल ! पाण्डवान् ॥१४६॥ सम्प्रत्यस्ति यदेतेषां पूर्वस्मादधिकं महः । कामं घनापदुत्तीर्णः पतिस्तपति रोचिषाम् ॥१४७॥ नात्यनीषज्जयो ज्यायानजय्यावनुजौ पुनः । नात्यनीषत्सहो दन्ती हन्त दन्तौ तु दुःसहौ ॥१४८॥ तेजस्विनस्तिरस्कृत्य दुष्करं खलु जीवितम् ।
प्राणन्ति दन्तिनः कण्ठीरवोल्लुण्ठनया कियत् ? ॥१४९॥ शूरं प्रत्यात्तधारालवैराणां तमसामिव ।
कन्दराः शरणायन्ते केवलं काश्यपीभृताम् ॥१५०॥ इयत्यपि गते तेभ्यस्तद्भुवं दातुमर्हथ । सर्वस्य चेत्कुटुम्बस्य कल्याणमभिलष्यथ ॥ १५१ ॥ अथामर्षरसोत्कर्षवर्षद श्रूदबिन्दुना । बभाषे धार्तराष्ट्रेण भारभङ्गरितध्रुवा ॥१५२॥ नूनमेष द्विषद्गृह्यः संजयः समजायत । यदेवं पौरुषोत्कर्षाद् द्विषां भीषयतेऽद्य नः ॥ १५३॥ जिघत्सोः शत्रुसैन्यानि मत्कौक्षेयकरक्षसः ।
भवन्ति प्रथमग्रास एव पञ्चापि पाण्डवाः ॥१५४॥
[ ४६ १
१. हस्तिनापुरम् । २. निर्वासितं नष्टम् । ३. अतिसुजयः इति भावः । ४. सिंहस्य तिरस्कारेण । ५. धारालं - तीव्रम् । ६. नृपाणाम् पक्षे पर्वतानाम् ।
5
10
15
20
25