SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ [४५९ एकादशः सर्गः । संजयस्य कथनम् ॥] त्वं विवेकस्य धर्मस्य नयस्य विनयस्य च । एक एवाकरः शङ्खमुक्तादीनामिवार्णवः ॥११६॥ तत्करौ कुड्मलीकृत्य वत्स ! किञ्चित् त्वंमुच्यसे । कन्या इव नियुज्यन्ते पात्रे हि गुरुभिर्गिरः ॥११७।। वाचो मेऽस्मिन्पुनः सर्वा ग्रावणीव शिलीमुखाः । कुण्ठीबभूवुरुल्लुण्ठे शाठ्यधाम्नि सुयोधने ॥११८॥ स्वयमासन्न एवास्य पातः पातकिनस्ततः । पित्तज्वरी चिरं हारहूरादिद्विट् किमेधते ? ॥११९॥ वंशस्येव खलु प्रांशोरप्यनम्रत्वशालिनः । बहि:सारस्य दुर्वार एव भङ्गः पदे पदे ॥१२०॥ अकीर्तिपटहं विश्वे दास्यसे तत् किमात्मनः ? । महात्मानो हि मुञ्चन्ति प्राणानप्ययशस्करान् ॥१२१॥ दीप्रस्यापि विवेकस्य तमःसम्पर्कशालिनः । महिमा मिहिरस्येव बंहीयानपि हीयते ॥१२२॥ विरोधयति लोभेन धर्ममेकोऽपरः पुनः । लोभं त्यजति धर्मार्थमन्तरं तदसत्सतोः ॥१२३॥ वरं वनं वरं भिक्षा क्षुद् वरं मरणं वरम् । न तु श्रीर्बन्धुसङ्घातघातपातकपङ्किला ॥१२४॥ द्वेष्टि बन्धून्धनस्यार्थे बन्धुद्वेषे धनक्षयः । तस्माद्वन्धुविरुद्धानां न धनं न च बान्धवाः ॥१२५॥ रणस्य च गतिर्दैवी कस्तत्र जयनिश्चयः ? । जीयन्ते जातुदोर्वीर्यस्फूर्तिमन्तोऽपि दुर्बलैः ॥१२६।। शाश्वतिक्यः श्रियः पिक्य इव नावेक्षिताः क्वचित् । अकीर्तयः पुनः काक्य इवावस्थास्नवश्चिरम् ॥१२७॥ तद्विवेकमनुस्मृत्य कृत्यं मनसिकृत्य च । हातुमर्हसि धात्रीश ! विरोधं सह बन्धुभिः ॥१२८॥ १. हारहूरा द्राक्षा । २. सूर्यस्य । ३. स्थिराः ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy