SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ २६] [पाण्डवचरित्रमहाकाव्यम् । भीष्मेण सह स्वयंवरागतराजानां युद्धम् ॥ तदानीं तत्र केषाञ्चिदभ्यस्तस्तेयकर्मणाम् । मूलोन्मूलितदौर्गत्यः स्तुत्यः शान्तनवोऽभवत् ॥२९८।। वीक्ष्य भीष्मं भयक्षोभाच्छिरस्तः स्रस्तबन्धनः । केनापि राजपुत्रेण किरीटो नोपलक्षितः ॥२९९।। नृपपञ्चाननाः केचिल्लीलालालसचेतसः । असिमुष्टिमवष्टभ्य यथास्थितमवस्थिताः ॥३००॥ अथ शौण्डीरदोर्दण्डाः केऽपि सम्भूय भूमिपाः । सद्यः संवर्मयामासुरस्तिवीरा हि काश्यपी ॥३०१॥ पुलकोद्रेदमेदस्विवपुषां पौरुषस्पृशाम् । तेषां वर्मत्रुटत्संधियुद्धसन्धां व्यधाद् दृढम् ॥३०२॥ काशिराजपुरोगैस्तै शं सर्वाङ्गवर्मितैः । विपक्षक्षितिपैरेत्य भीष्मो भीष्ममभाष्यत ॥३०३॥ हंहो ! क्षत्रकुलोत्तंस ! किमक्षत्रं वितन्यते ? । अयं स्वयंवरध्वंसो महांस्ते हेतुरंहसाम् ॥३०४।। श्रियः स्त्रियो वा मा भूवन्नाहूता दुर्नयेन याः । विपदावर्तगर्ते यत्पातयन्त्येव ताः पतिम् ॥३०५॥ तत्प्रतीच्छ शरैस्तीक्ष्णैः पापस्यास्य व्यपोहकम् । गुरुस्तवास्मदिष्वासः प्रायश्चित्तं प्रदास्यति ॥३०६॥ अथाभाषत गम्भीरं धीरः शान्तनुनन्दनः । भो ! भूमिपालाः ! सुष्ठूक्तं युष्माभिायनिष्ठुरैः ॥३०७॥ परमुर्वी च कन्या च सर्वसाधारणी भवेत् । गृह्णातु स हि यस्यास्ति विक्रमो निपुणः पुनः ॥३०८।। नैवास्ति विक्रमो यस्य स हास्यः स्पृहयन्निमाम् । दरिद्र इव रत्नानि विविधानि धनं विना ॥३०९॥ विक्रमेण धनेनैव विना यत्तस्करा इव । __ कन्यारत्नानि गृह्णीथ तयूयमपराधिनः ॥३१०॥ 15 20 25 १. स्रस्तवानधः इति प्र० द्वय० । २. धनुः । ३. पणः इति प्र० द्वय० ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy