________________
5
10
15
20
25
३८८]
[ पाण्डवचरित्रमहाकाव्यम् । विद्याधरकृता विडम्बना ॥
निबिडैर्निगडैः पूर्वं दृढं संयम्य पादयोः । एकैव खेचरैस्तेषां चिक्षिपे शृङ्खला गले ॥६३॥ पुरस्कृत्य पदातीन्वः शतमप्यनुजन्मनः । तदुपेत्य निजं सौधमध्यष्ठात्खेचरेश्वरः ॥६४॥ सर्वां च श्रियमादत्त राजवर्गस्य पश्यतः । युष्मद्वधूंश्च धत्ते स्म दु:सहे तपनात ॥ ६५ ॥ पत्युश्च देवराणां च दृष्ट्वाऽहं तादृशीं दशाम् । ततोऽत्युच्चैः कृताक्रन्दा रणक्षेत्रमुपागमम् ॥६६॥ निरौजस्कान्निजांस्तत्र मेदिनीशानवादिषम् । जयद्रथ ! रथः कुत्र ? बृहद्बल ! बलं क्व ते ? ॥६७॥ दृष्ट्वा कला कलिङ्गेश ! लज्जालेशोऽपि नास्ति वः । यद्बद्ध्वा नीयते स्वामी पुरतः पश्यतामसौ ॥६८॥ इत्युक्तास्तेऽप्यधः कृत्वा वक्त्रं पश्चान्निवृ (वर्) त्य च । दूरे जगृहुरावासानाश्रित्य विषमां महीम् ॥६९॥ नित्यं विमानमारोप्य दीनान्निगडितांस्तथा । खेचराः कटकस्यास्य दर्शयन्ति तवानुजान् ॥७०॥ अजल्पंश्चैष वः स्वामी धृतोऽस्मत्स्वामिना हठात् । अमुं स मोचयत्वाशु सन्ति यस्योर्जिता भुजाः ॥ ७१ ॥ तेऽपि वो बान्धवा बाष्पजलार्द्रा चिक्षिपुर्मुहुः । स्वराजन्यजने मोक्षप्रार्थनापिशुनां दृशम् ॥७२॥ राजानस्तेऽप्यजायन्त लज्जयाऽवनताननाः । विवराऽऽकाङ्क्षिणोऽभीक्ष्णं वीक्ष्यमाणा इव क्षितिम् ॥७३॥ प्रभोर्बन्दिग्रहात्तस्मात्तस्माच्च स्वपराजयात् । कर्णो जीवन्मृतावस्थमात्मानं मन्यतेऽधुना ॥ ७४॥ तमुदन्तमथ ज्ञात्वा भीष्म-द्रोण-कृपाः स्वयम् । समर्प्य धृतराष्ट्रस्य राज्यं वेगादिहाययुः ॥७५॥ दुःखादधोमुखीमुच्चै रुदन्तीं पादयोः पुरः । गाङ्गेयो मां बृहत्तातः सगद्गदमभाषत ॥७६॥