________________
अष्टमः सर्गः । पाण्डवानां पुनः द्वैतवने आगमनम् ॥] अनयोर्नागनारीभिर्दोलाकेलिषु गीयते । किर्मीरादिवधप्रायमत्रापि चरिताद्भुतम् ॥ ५४६॥ तत्सम्प्रति ससोदर्यो वासराणि कियन्त्यपि । अवनीपाल ! पातालं पवित्रयितुमर्हसि ॥५४७॥ अथाभाषत ते सूनुस्त्वद्गवीयमहीश्वर ! । क्षरत्यस्मासु पीयूषं क्लेशमेनमनाशयत् ॥५४८॥ वर्तते त्वतिदुःखेन स्नुषा च जननी च वः । तथा कुरुत जीवन्त्यौ पश्याम्यहमिमे यथा ॥ ५४९॥ ततः पन्नगनाथोऽपि कथञ्चन सगौरवम् । विससर्ज ससत्कारमन्वव्राजीच्च ते सुतान् ॥५५०॥ नम्रस्तमनुगच्छन्तमवोचत तपःसुतः । तैडागरक्षानागेभ्यः प्रसीद द्वारसेवया ॥५५१॥ यदानुकूलं कर्तारः कर्णयुद्धे किरीटिनः । मां पुनः सेवितारस्ते शङ्खचूडादयस्तदा ॥ ५५२॥ इति दत्तोत्तरं धर्मसूनुः पन्नगपुङ्गवम् ।
प्रणम्य पादयोः सास्त्रं बलादेव न्यवर्तयत् ॥५५३॥ युग्मम् ।
तत् कुन्ति ! त्वत्तपः प्रह्वपुरुहूतनिदेशतः । अमी मया समानीय सुताः पञ्चापि तेऽर्पिताः ॥५५४॥
इन्द्रादिष्टमिदं चक्रे मम भक्तिस्त्वतः परम् । नयामि वो विमानेन यथेदानीं तथाऽऽदिश ॥ ५५५ ॥ अथाजल्पत् पृथा सौम्य ! त्वन्माहात्म्यं किमुच्यते । पुनर्वेगेन तत्रास्मान्नय द्वैतवने वने ॥५५६॥
तथा कृत्वा वचः कुन्त्यास्तानापृच्छ्य समुत्सुकः । तन्नेत्रैरनुयातोऽगान्नैगमेषी यथागतम् ॥५५७॥ पञ्चवर्षीमतीत्यैवमन्यान्यवनभूमिषु । पुनद्वैतवनोत्सङ्गमधितस्थौ युधिष्ठिरः ||५५८||
१. तडागारक्षना० प्रतिद्वयपाठः ।
[ ३८१
5
10
15
20
25