SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ [३७९ अष्टमः सर्गः । नैगमेषिणा कथितो वृत्तान्तः ॥] मानसं तीर्थमेवास्याः सर्वपापतमोपहम् । यदध्यासितमर्हद्भिर्युगपन्निखिलैरपि ॥५२०॥ पत्नी तु द्रौपदी नाम्ना यां महिम्नाऽतिशायिनीम् । पतिव्रतामयं ज्योतिरामनन्ति मनीषिणः ॥५२१॥ तत्पाण्डवान् विपत्पङ्काद्गत्वा सत्वरमुद्धर । एतयोः स्युर्महासत्योर्यथा पूर्णा मनोरथाः ॥५२२॥ इदं हि नागराजस्य सर: सागरसोदरम् । स चास्य सहते नैव विमर्दमपरैः कृतम् ॥५२३।। द्रौपद्या प्रार्थितो भीमः कमलानि कुतूहलात् । इहाक्रष्टुं प्रविष्टश्चाकृष्टश्चाधो भुजङ्गमैः ॥५२४॥ हा ! ममज्ज जले भीम इत्याकुलतया क्रमात् । ददुर्झम्पां झगित्यत्र चत्वारो बान्धवा अपि ॥५२५।। प्रसह्य समगृह्यन्त तेऽपि नागैर्दुराशयैः । निन्यिरे नागपाशैश्च बद्ध्वा नागपतेः पुरः ॥५२६॥ तद् व्रज ध्वजिनीनाथ ! द्रुतं मोचय पाण्डवान् । सोऽपि पाण्डुसुतानेतान् विदित्वाऽनुशयिष्यते ॥५२७।। ततोऽहमिममादेशमुपादाय दिवस्पतेः । । प्रीतिप्रह्वीकृतो वेगान्नागराजमुपागमम् ॥५२८॥ तस्यास्थाने दृढं बद्धाँल्लज्जयाऽधोमुखांस्तदाः कृशाशोकाश्रुपूर्णाक्षानद्राक्षं कुन्ति ते सुतान् ॥५२९॥ तदा तेषु सुसत्त्वेषु गतार्तिषु सुमूर्तिषु । निपेतुर्नागराजस्य भूरिभावस्पृशो दृशः ॥५३०॥ व्यज्ञाप्यत ततः प्रहस्तैर्द्विजिढरहीश्वरः । एते देव ! नराः केचित्सरोवरविमर्दिनः ॥५३१॥ अमीभिः सैरिभप्रायैर्जलं चक्रे रजस्वलम् । लूनानि नलिनीनां च शिरांसि कमलच्छलात् ॥५३२॥ १. नागपतिः । २. प्रीत्या नम्रीकृतः । ३. धूलिमयं-मलिनमित्यर्थः ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy