SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ अष्टमः सर्गः । अर्जुनस्य भ्रातृसमीपे आगमनम् ॥] संमेतादिषु शैलेषु पावनेष्वर्हतां पदैः । सर्वविद्याधरोपेतः पार्थस्तीर्थान्यवन्दत ॥ ३८८ ॥ चारणश्रमणांश्चैष नमस्यन् व्योम्नि सम्मुखान् I आगाल्लवङ्गलवलीसुगन्धं गन्धमादनम् ||३८९॥ पुरोगखेचराख्यातां वीक्ष्य व्योम्नि सुतश्रियम् । निजामुवाच रोमाञ्चद्वारेणैव मुदं पृथा ॥ ३९०॥ पश्यन्नपि सुधाबन्धुबन्धुलक्ष्मीं युधिष्ठिरः । सानुजः कलयामास तत्कालमनिमेषताम् ॥३९१॥ ३ तदानीं विकसन्नेत्र-नीरजा द्रुपदात्मजा । इयेष मनसोत्प्लुत्य पत्युरुत्सङ्गसंगमम् ॥३९२॥ उन्मुखेषु मुदा तेषु वेगादागत्य फाल्गुनः । खेचरैः सहितो मातुरपतत्पादपङ्कजे ॥३९३॥ मुहुर्मुहुः स्पृशन्त्याऽङ्गं सुधाशीतेन पाणिना । तयाऽपि स्नपयाञ्चक्रे प्रमोदाश्रुभिरात्मजः ॥३९४॥ उभाभ्यामपि पाणिभ्यां तमुत्थाप्य पृथा बलात् । आजिघ्रन्मुदिता मूर्ध्नि प्रश्रवक्लिन्नवल्कला ॥ ३९५॥ अग्रजावनमत्पार्थस्तं चोपेत्यानुजौ यमौ । पार्थेनावेदिता नेमुः खेचरास्तपसः सुतम् ॥ ३९६॥ त्रपासीमान्तमुल्लङ्घ्य प्लवमानैरितस्ततः । प्रेम प्रकाशयामास कृष्णा भावैः स्वभर्तरि ॥३९७॥ उपस्थातव्यमाहूतैर्युष्माभिः समये पुनः । इत्याभाष्य तपःसूनुर्विससर्ज नभश्चरान् ॥३९८॥ अथ पप्रच्छ विनयी बान्धवान् कपिकेतनः । अत्यक्रामदयं कालः कथं वो विरहे मम ? || ३९९ ॥ तत्तत्तीर्थनमस्याभिस्त्वत्कथाश्रवणेन च । गमितः समयोऽस्माभिरित्याख्यद् धर्मनन्दनः || ४००|| १. नीरजं - कमलम् । [ ३६९ 5 10 1151 20 25
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy