________________
३३४]
[पाण्डवचरित्रमहाकाव्यम् । बकवधवृत्तान्तः ॥ व्यावृत्तस्त्वधुनाऽपृच्छत्केनेत्थं मे पिता हतः ? । मयाऽऽख्यायि महाकायः कोऽप्यद्यागात्पुमान् बलि:(ली) ॥६५३॥ जज्ञेतमां तमालोक्य स्वामिनो नो मनोरथैः । यथाचिरात्कुटुम्बस्य भवत्वद्याशितम्भवः ॥६५४॥ स्वाम्यादेशात्ततः शैले समानीतं कथञ्चन । वीक्षमाणैरमुं रात्रिंचरैश्चित्रीयितं चिरात् ॥६५५॥ सूर्यहासमसिं कृष्ट्वा प्रजिहीर्षुः प्रहर्षतः । तेनाथ भूतलोत्थायमभ्यधीयत नः प्रभुः ॥६५६॥ रे रे ! निस्त्रप ! निस्त्रिंश ! दुराचार ! निशाचर ! । निर्मन्तुजन्तुविध्वंसपापप्राग्भारपङ्किल ! ॥६५७॥ भवस्येष कथाशेषस्त्वमिदानीमसंशयम् । परं प्रहर रे ! पूर्वं हन्तुं प्राग्नास्मि शिक्षितः ॥६५८॥ इत्थमुत्तेजितस्तेजःशालिनामग्रतःसरः । नक्तंचरमहेन्द्रस्तं हतवांस्तरवारिणा ॥६५९॥ तत्राथ वज्रजैत्राने प्रयुक्तमधिपेन नः । क्षणेन मण्डलाग्रं तज्जगाम शतखण्डताम् ॥६६०॥ सोऽधावन्मुष्टिना हन्तुं नक्तंचरपति ततः । पर्वतोच्चतर: क्रूरश्चाणूरमिव केशवः ॥६६१॥ मुष्टिना ताडितस्तेन धृतदम्भोलिकेलिना । पपात भुवि नः स्वामी सपक्ष इव भूधरः ॥६६२॥ ततः कुमार ! ते ताते जाते मूर्छाविसंस्थुले । रक्षोभिर्विरलैर्जातं हन्त सैन्यमनायकम् ॥६६३॥ तथाऽप्येतस्य कूटेन कुटुम्बं संहराम्यहम् । विमृश्येति प्राहिणवं सुमायं नाम राक्षसम् ॥६६४॥ शिक्षां मम समादाय गते तस्मिन्स्वसिद्धये । मूर्छा शीतोपचारेण स्वामिनः प्रापयं क्षयम् ॥६६५॥ १. भोजनेन तृप्तिः । २. असिना । ३. असिः । ४. कपटेन ।
25