________________
5
10
15
20
25
३२४]
[ पाण्डवचरित्रमहाकाव्यम् । बकासुरोपद्रवः ॥ तद्गच्छ बलिमादाय निवासं तस्य रक्षसः । विदधीथास्तथा तत्र सत्यः स्यात् केवली यथा ॥ ५२२ ॥ एवमादेशमासाद्य मातुः पादौ प्रणम्य च । सच्छायपादपं प्राप बकोद्यानं वृकोदरः ॥५२३॥ पश्यन्स्मेरमुखस्तस्य वनस्य कमनीयताम् । पुरतः पुरुषं कञ्चिद् दृष्ट्वाऽभाषिष्ट पाण्डवः ॥५२४॥ शंस मे भद्र ! कस्यायं प्रासादः प्रांशुरग्रतः ? | कश्च त्वं ? कुत्र वा तिष्ठेद् रक्षोभक्ष्यः पुमानिह ? ॥ ५२५ ॥ सोऽवोचत्कारितः पौरैः प्रासादः सैष राक्षसः ।
स्थाने चास्मिन्बलिः शेषराक्षसेभ्यो निधीयते ॥ ५२६ ॥ अहं तु पौरनिर्दिष्टः प्रासादपरिचारकः । पर्यायोपगतोऽध्यास्ते वध्यो वध्यशिलामिमाम् ॥५२७॥ महात्मन्कौतुकात् किंतु किञ्चित्पर्यनुयुज्यसे । त्वादृग्लोकत्रयीजैत्रभुजः कोऽप्यत्र नाययौ ॥५२८॥ नाप्यस्ति वध्यवेषस्ते न च ते दीनमाननम् । लम्बते निम्बमाला च न तवाधिशिरोधरम् ॥५२९॥ इति प्रश्नपरे तस्मिन्नकस्मादेव दुःश्रवः । पुरो याहि पुरो याहीत्येवं कोलाहलोऽभवत् ॥५३०॥ तं श्रुत्वा स पुनः प्राह नन्वसावेति राक्षसः ।
ततो व्यवहितो भूत्वा देव ! स्थास्यामि सम्प्रति ॥ ५३१ ॥ इत्युक्त्वाऽन्तर्हिते तस्मिन्दूरादायाति राक्षसे ।
पल्यङ्किकामिव शिलां लीलयाऽध्यास्त पाण्डवः ॥५३२॥ अथोपेतः समं प्रेतपिशाचैः स निशाचरः । सुखोत्तानशयं क्रूरः प्रेक्षांचक्रे वृकोदरम् ॥५३३॥ अचिन्तयच्च कोऽप्यद्य पीवरोरुर्महोदरः । आगात्पुमान्न यो माति विपुलेऽपि शिलातले ॥५३४ ॥ असौ बुभुक्षाक्षामस्य भूत्वा कुक्षिभरिर्मम । पीनः परिच्छदस्यापि भविष्यत्युदरंभरिः ॥५३५॥