SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ 10 ३२०] [पाण्डवचरित्रमहाकाव्यम् । कुन्त्याः उदारता ॥ इति कुन्ति ! कुटुम्बं मां नानुजानाति मृत्यवे । अनुमन्येऽहमप्येतत्कथं रक्षोमुखे पतत् ॥४७०॥ आदेशस्तु नरेशस्य सर्वथा दुरतिक्रमः । तत्किकर्तव्यतामूढः पतितोऽस्म्यत्र वैशसे ॥४७१॥ इति विप्रे वदत्येव काशकम्बां विलोलयन् । वेगादागत्य बालस्तानवोचत्पञ्चहायनः ॥४७२॥ मा रोदीस्तात ! मा स्माम्ब रोदीस्मि रुदः स्वसः । अनया कम्बया गत्वा तं हनिष्यामि राक्षसम् ॥४७३॥ मुहुर्मुहुर्बवन्नेवं चालयंस्तां लतां शिशुः । बाष्पप्लुते दृशौ तेषां प्रममार्ज पुनः पुनः ॥४७४।। तेषामेकैकशो नेत्रे स ममार्ज यथा यथा । अम्भस्तथा तथा ताभ्यां निर्झराभ्यामिवाभ्यगात् ॥४७५॥ अथ कुन्ती बलोदात्तां तां बालस्य सरस्वतीम् । रक्षोवधैकपिशुनामुपश्रुतिममन्यत ॥४७६॥ द्विजन्मानमवादीच्च दयालुहृदयाऽधिकम् । हतमेवेति तं वत्स ! लक्षये राक्षसाधमम् ॥४७७॥ वध्यवेषममुं मुञ्च किं च सिञ्चन्कुटुम्बकम् । वात्सल्यामृतकुल्याभिश्छायां नय पुरातनीम् ॥४७८।। शौण्डीर्योपचिताः पञ्च ममामी सन्ति सूनवः । तेषामेकतमो गत्वा तं हनिष्यति हेलया ॥४७९।। इति कुन्तीवचः श्रुत्वा हसन्नाह द्विजोत्तमः । न जानासि जगज्जैत्रं त्वमम्ब ! बकविक्रमम् ॥४८०॥ तस्मिशौण्डीर्यशौण्डानां दोर्दण्डबलडम्बरम् । अन्तर्मज्जति मार्तण्डे तेजस्तेजस्विनामिव ॥४८१॥ अहमेव वरं मातर्यातः कीनाशदासताम् । न तु विश्वजनीनात्मा तनयस्तव कश्चन ॥४८२॥ 25 १. विघ्नेः । २. शकुनम् । ३. पराक्रमदक्षाणाम् । ४. विश्वजनहित आत्मा यस्य सः ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy