SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ 5 10 15 20 25 ३०८ ] [ पाण्डवचरित्रमहाकाव्यम् । भीमेन कृतो हिडम्बघातः ॥ स्थिरो भव तव भ्राता भुजभ्राजिष्णुरर्जुनः । अस्त्येव वत्स ! तच्छत्रौ दुष्टे कष्टायसे कथम् ? ॥३१३॥ इत्युक्तः सोऽवदद्देव ! मम सम्प्रति दोर्बलम् । तव दृष्ट्या सुधावृष्ट्या सिक्तं पल्लवितं पुनः ॥३१४॥ तवानुजस्य पुरतः कोऽयं राक्षसपांसनः ? | पुरो हि पूंष्णः पुष्णन्ति न चयं ध्वान्तवीचयः ॥३१५॥ वीक्ष्यमाणस्य देवस्य प्रसन्नाक्षस्य राक्षसम् । एनं नयामि पञ्चत्वं पञ्चानन इव द्विपम् ॥३१६॥ अमानुषप्रचारेऽस्मिन्कानने निरुपद्रवः । प्रसादेन तवेदानीमस्तु पन्थाः सुसञ्चरः || ३१७॥ तदस्तु फाल्गुनः शत्रोः करिष्ये फल्गु वल्गितम् । इति व्याहत्य संहर्तुं स रिपुं प्रत्यधावत ॥ ३१८॥ अथाहवं महाबाह्वोर्बाहूबाहवि कुर्वतो: । तयोर्जय श्रीर्दोलेव करोति स्म गतागतम् ॥३१९॥ पाण्डवश्च हिडम्बश्च वल्गन्तौ क्षोणिरेणुभिः । तमांसि मांसलीभावं लम्भयामासतुस्तदा ॥३२०॥ दृष्ट्वा हिडम्बदोर्दण्डचण्डिमानं युधिष्ठिरः । अभीमं जगदद्येति विदन्नर्जुनमभ्यधात् ॥३२१॥ त्वर्यतां त्वर्यतां वत्स ! गच्छ क्षपय राक्षसम् । दोर्दण्डाभ्यां हिडम्बेन पीड्यतेऽसौ तवाग्रजः || ३२२|| जल्पत्येवं तपःसूनौ भीमस्तं राक्षसं क्षणात् । ग्रीवायां बाहुपाशेन पशुमारममारयत् ॥३२३॥ कुन्ती सुतस्य सानन्दमुदतारयदञ्चलम् । भ्रातुर्वपुरजातारिः सरजस्कममार्जयत् ॥३२४॥ अर्जुनाद्याः कनीयांसस्तस्य चेलाञ्चलानिलैः । रणखेदभवस्वेदच्छेदमातेनिरेतराम् ॥३२५॥ १. सूर्यः ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy