________________
5
10
15
20
25
३०० ]
[ पाण्डवचरित्रमहाकाव्यम् । पाण्डवानां वनवासः ॥
नकुलः सहदेवश्च पथि श्रान्तावुभावपि । ज्यायसां मा स्म खेदोऽभूदिति तूष्णीमगच्छताम् ॥२०९॥ पादचारं सदाचारभूमीरुहभुवोरपि ।
मातुः पत्न्याश्च निध्यायन्दध्यौ विश्वम्भराधिपः ॥२१०॥ यस्यां कथञ्चिन्नापैति सुतानामधमर्णता । मयाऽद्य निष्क्रयो मातुस्तस्याः क्लेशोऽयमर्प्यते ॥२११॥ कष्टं दृष्टं यया नैव पितुर्भर्तुश्च वेश्मनि । मातेयममितं क्लेशं मयैवमनुभाव्यते ॥ २१२ ॥ अहो ! पाणिगृहीतीयं पाण्डवानां महौजसाम् । दरिद्रगृहिणीचारं चरत्येव वनावनौ ॥२९३॥ पश्यतां पाण्डुपुत्राणां कलत्रस्य कुशाङ्कुरैः । अम्भोजभेदं भिद्येते हहा ! चरणपल्लवौ ॥२१४॥ न जानाति प्रिया दुःखमेकस्मिन्नपि भर्तरि । पञ्चस्वपि प्रियेष्वेका क्लिश्यते द्रुपदात्मजा ॥ २१५ ॥
इत्यस्मिंश्चिन्तयत्येवं(व) मार्गे दुर्गे तमोभरैः ।
श्रान्ता कुन्ती च कृष्णा च निःसहं भुवि पेततुः ॥ २१६ ॥ चतुर्भिः कलापकम् । राज्यभ्रंशं भयं शत्रो रात्रौ पद्भ्यां पलायनम् ।
धिग् विधिं योऽव्यधादेवं पाण्डवानां विडम्बनम् ॥२१७॥ उष्णालुभिरपच्छत्रैः शीतालुभिरनंशुकैः । बुभुक्षुभिरपाथेयैः पन्थानो दुरतिक्रमाः ॥२१८॥ शिरीषसुकुमाराङ्ग्यौ निपतन्त्यौ पदे पदे । दुर्गकान्तारपारीणे कथमेते भविष्यतः ? ॥२१९॥ इति खेदपरं दृष्ट्वा नृपमूचे वृकोदरः ।
आकुलो मा स्मभूर्देव ! पदातौ प्रगुणे मयि ॥ २२० ॥ चतुर्भिः कलापकम् ।
ततोऽम्बां दक्षिणे स्कन्धे वामे प्रियतमां पुनः । अध्यारोप्य ययौ भीमो भञ्जन्मार्गमहीरुहः ॥२२९॥
१. सदाचारवृक्षाणां स्थानयोः । २. राज्यभ्रंशो इति प्रत्यन्तरपाठः साधुः ।