________________
10
२९२] [पाण्डवचरित्रमहाकाव्यम् । युधिष्ठिरः पितरं निवर्त्य कृष्णेन सह ॥
कथं च त्वद्वियुक्तोऽहं भविष्यामि हताशयः ? । विना चन्द्रं समुद्रस्य दशा जायेत कीदृशी ? ॥१०२॥ न शक्नोमि परं वत्स ! वचस्ते कर्तुमन्यथा । क्षेमवानचिरेणैव दर्शयेर्मुखमात्मनः ॥१०३।। किञ्च रत्नमयीमेतां स्फुरद्धामोमिमूर्मिकाम् । गृहाणार्तिप्रहाणाय धारयेः पारिपाश्विकीम् ॥१०४॥ इत्युदीर्य निवेद्यास्याः सर्वं सम्भवमादितः । प्रीतश्चिक्षेप पाण्डुस्तां ज्येष्ठात्मजकराङ्गलौ ॥१०५।। कुर्वीथाः पुत्रभाण्डेषु देवि ! यत्नमिति ब्रुवन् । आपृच्छ्य प्रेयसीं पाण्डुर्ययौ सविदुरः पुरम् ॥१०६॥ मातस्तातमहोरात्रं शुश्रूषस्वेति धर्मजः । उदीर्य सादरं माद्री मुमोच पितुरन्तिके ॥१०७।। वत्सौ ! बान्धवसेवायां कुर्यातं निश्चितं मनः । इत्यादिश्य यमौ सापि जगाम सह पाण्डुना ॥१०८॥ अथ प्रतस्थे पुरतः पौरोपेतः पृथासुतः । केवलं केशवे नासौ त्याजितः पादचारिताम् ॥१०९॥ कोऽपि रंहस्विनं वाहमारुरोह मनोहरम् । कोऽप्यात्माभिमतां मत्तमतङ्गजमतल्लिकाम् ॥११०॥ अन्ये विमानमन्यानि याप्ययानानि लीलया । प्रासादरुन्दमानन्दस्यन्दिनं स्यन्दनं परे ॥१११॥ युग्मम् । स एवं वाहनारूढैः प्रौढश्रीभिः स्वबान्धवैः । साकं नासिक्यनगरं सहितो हरिणाऽभ्यगात् ॥११२॥ तत्र निर्मापितां मात्रा श्रीमच्चन्द्रप्रभप्रभोः । असौ मणिमयीमर्चामानर्च विकचाम्बुजैः ॥११३॥ गोविन्दः पुनरानन्दबाष्पाविलविलोचनः । चिरं चन्द्रप्रभं देवमुपासामास भक्तितः ॥११४॥
25
१. स्फुरत्प्रभातरङ्गाम् । २. मुद्रिकाम् । ३. प्रासादसदृशम् ।