________________
[१५
प्रथमः सर्गः । शान्तनुकृताः सत्यवतीयाचना ॥]
गङ्गामापृच्छ्य गाङ्गेयमादाय दयितः क्षितेः । उत्तोरणं पताकाङ्कगोपुरं पुरमाययौ ॥१५४॥ नृपोऽथ सूनवे तस्मै यौवराज्यपदं ददौ । योग्यं सुतं वा शिष्यं वा नयन्ति गुरवः श्रियम् ॥१५५॥ एकातपत्रां सोऽप्युर्वी कुर्वन्नहितनिग्रहात् । विनीतात्मा तनोति स्म प्रसादं सदृशं पितुः ॥१५६॥ विनीततनयोत्खातचिन्ताशल्यश्चिरं नृपः ।' स्वच्छन्दोल्लसदानन्दं विजहार महीतले ॥१५७॥ अन्यदा यमुनातीरे विहरन्स मनोहराम् । कन्यामालोकयामास कांचिन्नावि निषेदुषीम् ॥१५८।। स तस्याः स्पृहणीयेन रूपेण हृतमानसः । काऽसि त्वमिति तामेत्य पप्रच्छ मदनोत्सुकः ॥१५९॥ जगाद साऽपि भूपालं कालिन्दीकच्छवासिनः । नौतन्त्राधिपतेः पुत्री कन्या सत्यवतीत्यहम् ॥१६०॥ ताताज्ञां प्राप्य धर्मेण वाहयामि तरीमहम् । भवेत्कन्या कुलीना हि पित्रादेशवशंवदा ॥१६१॥ श्रुत्वेति नीतितत्त्वज्ञः क्षणेन क्षितिपोत्तमः । तदर्थमर्थी भवितुं ययौ तत्पितुरन्तिके ॥१६२॥ स्वागतक्रिययाऽऽनन्द्य सोऽपि शान्तनुभूपतिम् । देवा ! ऽऽज्ञया प्रसीदेति विनयेन व्यजिज्ञपत् ॥१६३।। अभाषिष्ट निविष्टं तं पतिर्धात्र्यास्तरीपतिम् । सधर्मचारिणी मेऽस्तु सुता सत्यवती तव ॥१६४॥ अथाभ्यधत्त नौतन्त्रस्वामी विनयवामनः । गृहमभ्यागतो देव ! त्वमर्थी केन लभ्यसे ? ॥१६५॥ परं पतिवरामेनां न तुभ्यं दातुमुत्सहे । गाङ्गेयः खेचरीगेयबाहुर्यत्तेऽस्ति नन्दनः ॥१६६॥
१. क्रियाविशेषणमेतत् ।