SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ [२७७ षष्ठः सर्गः । द्रौपद्याः रोषः दुःशासनस्य धृष्टता च ॥] दुर्जनैकधुरीणाय तस्मै द्यूतसृजे नमः । येन कामप्यनीयन्त महान्तोऽपीदृशी दशाम् ॥९४४॥ द्रौपदीपणमाहात्म्याद्यदि नाम तपःसुतः । इदानीं जयतीत्यादि तदाऽऽन्योन्यं जगुर्जनाः ॥९४५॥ क्षणेनाथ भुजाऽऽस्फोटनादकन्दलितोदयाः । जितं जितमिति स्वैरमुच्चेरुः शकुनेर्गिरः ॥९४६॥ स्तम्भिता इव मूर्छाला इव चित्रार्पिता इव । मृता इव ग्रहग्रस्ता इव सभ्यास्तदाऽभवन् ॥९४७।। शत्रवः पाण्डुपुत्राणां हरन्तो राज्यसम्पदम् । तेनुरुद्भूतसत्त्वानां निःसपत्नां सुखश्रियम् ॥९४८॥ कौरवाः पर्यपूर्यन्त सम्मदैः क्षयहेतुभिः । अन्यायसम्भृताऽऽभोगैविभवैरिव दस्यवः ॥९४९॥ अथ दुर्योधनादेशाद्यावद् दुःशासनो मुदा । वासांसि पाण्डवेयानामपक्रष्टुमचेष्टत ॥९५०॥ तावत्ते स्वयमुत्सृज्य चीवराण्यम्बरश्रियः । धृताधोवसनाः पर्षधुपाविक्षन्नवाङ्मुखाः ॥९५१॥ युग्मम् । अत्रैवाऽऽनीयतां साऽपि पुंश्चली पञ्चवल्लभा । इत्यादिशत्कनीयांसं मन्दमेधाः सुयोधनः ॥९५२॥ ततो दुःशासनो लुप्तगरीय:साधुशासनः । स्मेरवक्त्राम्बुजोऽभ्येत्य पाञ्चलीमित्यवोचत ॥९५३॥ तेन दर्मेधसा पत्या हारिताऽसि दुरोदरे । त्वं जिताऽसि च पाञ्चालि ! धार्तराष्ट्राग्रजन्मना ॥९५४॥ ततः स भवतीं प्रीतिप्रमाह्वयति द्रुतम् । न चेदेष्यसि नेष्यामि तद्बलादपि भामिनी ! ॥९५५॥ पाञ्चालदुहिताऽवोचन्नन्वद्यास्मि रजस्वला । एकांशुका च तत्संसधुपागच्छाम्यहं कथम् ? ॥९५६॥ 25 १. क्रियाविशेषणमेतत् ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy