SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ 5 10 षष्ठः सर्गः । पाण्डवादीनाम् द्यूतक्रीडा ॥] [२७३ भिद्यन्ते हि नदीयांसः प्रेमभिः कृतकैरपि । दारवीयोऽपि नाराचो भिनत्ति कदलीद्रुमम् ॥८९२॥ भीष्मद्रोणादयो वृद्धाः स्नेहग्रहिलचेतसः । चिरयत्यात्मजे पाण्डोरिन्द्रप्रस्थमुपाययुः ॥८९३॥ अथ क्वचन निःसङ्गचतुरङ्गदुरोदराम् । क्वचिद्गम-चरोदारशारक्रीडामनोहराम् ॥८९४॥ क्वचित्प्राप्तजयद्यूतकारवाचालतालिकाम् । क्वचिच्च कलितोत्कर्षशलाकाकेलिशालिनीम् ॥८९५।। प्रतिपढें प्रतिस्तम्भं प्रत्यस्त्रि प्रतिपुत्रिकम् । अशक्यदर्शनामेकदेशमग्रेक्षणत्वतः ॥८९६।। स्वरामणीयकाक्षिप्तस्व:सदं संसदं निजाम् । दर्शयामास गान्धारीतनयो धर्मसूनवे ॥८९७।। चतुर्भिः कलापकम् । भ्राम्यन्तौ तौ ततस्तस्यां वीक्षमाणावितस्ततः । युवां क्रीडिष्यथः किं नेत्यजल्पेतां महाक्षिकैः ॥८९८॥ दुर्योधनोऽप्यभाषिष्ट विष्टपश्रीविशेषक ! । माननीया महान्तोऽमी दीव्यामो देवनैः क्षणम् ॥८९९॥ ओमित्युक्तेऽथ धर्मात्मजन्मना तावुभावपि । क्रीडितुं प्रक्रमेते स्म देवरितरेतरम् ॥९००।। तदा सरलचेतोभिर्भ्रातृभिः परिवारितः । रेजे धर्मात्मजः पारिजातः कल्पद्रुमैरिव ॥९०१॥ धार्तराष्ट्रोऽप्यधाइष्टैरावृतः सौबलादिभिः । कण्टकिद्रुपरीतस्य विलासं विषशाखिनः ॥९०२॥ द्वौ द्विकौ द्वौ चतुष्कौ च दश चेत्यादिवादिनोः । अक्षयूतमनुस्यूतं ततः प्रववृते तयोः ॥९०३॥ क्रीडामात्रकमित्यादौ पत्रपूगादिकः पणः । ततोऽङ्गुलीयकाद्योऽभूद् द्यूते वृद्धिमुपेयुषि ॥९०४॥ १. अतिमृदवः । २. काष्ठनिर्मितः । ३. गमादयो द्यूतभेदाः । ४. युधिष्ठिरस्य संबोधनमिदम् । विशेषतः इति प्रत्यन्तरे । ५. ग्रथितम् । 15 20 25
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy