________________
10
षष्ठः सर्गः । विप्रस्य कथनम् ॥]
[२६३ स वेत्ति सूर्यपाकाया रसवत्या विधि सुधीः । वक्ति चास्यामुपाध्यायो बभूव नल एव मे ॥७६०॥ श्रुत्वैतल्लोकतो भैमी भूपमेत्य व्यजिज्ञपत् । न तां रसवतीं तात ! वेत्ति कश्चिन्नलं विना ॥७६१।। तत्प्रेक्ष्य कञ्चिज्जानीहि किंरूपः किंकलश्च सः । अवश्यं गोपितात्मैव नल एव स वल्लभः ॥७६२॥ मामाहूय ततो दत्त्वा शिक्षां प्रैषीद् विदर्भराट् । क्रमादत्रैत्य भद्र ! त्वां पृच्छन्पृच्छन्निहागमम् ॥७६३॥ एवंरूपं च वीक्ष्य त्वां विषादादित्यचिन्तयम् ।। काचे मरकतभ्रान्तिर्वैदाः किमभूदियम् ? ॥७६४॥ नलः क्व दिविषद्देश्यः ? कुब्जश्चायं क्व सूपकृत् ? । क्व सर्षपः ? क्व मेरुश्च ? क्व खद्योतः ? क्व चार्यमा ? ॥७६५॥ तथाऽप्येनं परीक्षिष्ये विचिन्त्येति पठंस्त्वया । नलाक्षेपमयौ श्लोकावापृच्छयेऽहं कथामिमाम् ॥७६६॥ तदस्तु स्वस्ति ते यामि व्यावृत्य नगरं निजम् । यथादृष्टं च वैदया॑स्त्वत्स्वरूपं निवेदय ॥७६७।। भैमीस्मरणसम्भूतं कथञ्चन ततः सुधीः । बाष्पपूरं निरुन्धानः कुब्जः कुशलमब्रवीत् ॥७६८॥ पूज्योऽसि कथयन् विप्र ! पुण्यपात्र ! कथामिमाम् । तदागच्छ ममाऽऽवासं गृहाण मम सत्कृतिम् ॥७६९।। इत्युदीर्य द्विजन्मानमानीय स गृहे निजे । रसवत्या तया सूर्यपाकया तमभोजयत् ॥७७०॥ अभूच्च भूधवाल्लब्धं यट्टङ्काभरणादिकम् । तत्प्रदायाखिलं कुब्जोऽनुमेने गमनाय तम् ॥७७१॥ सोऽथ विप्रो विदर्भायां समभ्येत्य विषादवान् । भैमीभूमीभुजोः कुब्जस्वरूपं तदचीकथत् ॥७७२।। स्वयं रसवतीं तां च भुक्तामाख्याय स द्विजः । टङ्कलक्षादि तत्सर्वं कुब्जदत्तमदर्शयत् ॥७७३॥
15
20
25