SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ [२२५ षष्ठः सर्गः । दमयन्तीस्वयंवरः ॥] हर्षोत्फुल्लचलच्चेटीकृतालोकध्वनिस्ततः । लक्ष्मीर्मूर्तेव वैदर्भी विवेशान्तःस्वयंवरम् ॥२५७॥ युग्मम् । इमां रति-शची-लक्ष्मी-पार्वतीरूपजित्वरीम् । निर्माय महतो जज्ञे निर्वादस्य पदं विधिः ॥२५८।। स्मरेन्द्र-मरजित-कण्ठेकाल-लीलाजयी न यत् । अनेन निर्ममे कश्चिदित्यतकि जनैस्तदा ॥२५९॥ युग्मम् । मनोभिः सर्वभूपानां वितन्वद्भिर्गतागतम् । अन्तराध्वा तदङ्गानां तदा पाणिधमोऽभवत् ॥२६०॥ शृङ्गाररसपूर्णायां केदारभुवि शालिवत् । जातः स्तम्बकरिस्तस्यामभिलाषो महीभुजाम् ॥२६१॥ तां वीक्ष्य पुण्यतारुण्यां नलोऽप्यन्तरचिन्तयत् । कात्यायन्या तपस्वी धिग्मृड: कामं विडम्बितः ॥२६२॥ अथ तस्याः स्मरोद्रेकसूत्रितानेकविभ्रमान् । नामग्राहं महीपालान् दर्शयामास वेत्रिणी ॥२६३। देवि ! तैस्तैर्गुणैः सोऽयमगाधो मगधाधिपः । वपुर्लावण्यकल्लोलैजितानङ्गोऽयमङ्गराट् ॥२६४॥ एष विद्विषतां लुप्तसप्ताङ्गो वङ्गभूपतिः । वारितारिकुरङ्गाक्षीशृङ्गारोऽयं कलिङ्गराट् ॥२६५।। असौ भग्नरिपुस्त्रैणकङ्कणः कङ्कणेश्वरः । शत्रुवित्रासनाट्यैकनटोऽयं लाटनायकः ॥२६६।। प्रत्यर्थिप्रार्थितप्राणत्राणोऽयं हूणदैवतम् । असौ जनितविद्वेषिडिम्बः कम्बोजभूमिभुक् ॥२६७॥ इत्थमस्थास्नुमेतेषु सिन्दुवारेष्विवालिनीम् । दृशमुद्वीक्ष्य वैदाः पुनर्दोवारिकी जगौ ॥२६८॥ देवि ! पश्य पुरः सोऽयं निषधाया विशेषकः । विवेक-विक्रम-न्यायनिधिनिषधभूपतिः ॥२६९॥ १. दुर्गादेव्या । २. शिवः ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy