SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ [७ प्रथमः सर्गः । गाङ्गेयेति नामकरणम् ॥] हर्षादिति वदत्येवं नृपसैन्यमुपागमत् । जह्वरप्याययौ तत्र तनयादर्शनोत्सुकः ॥५०॥ सखीमुखेन निःशेषं तं वृत्तान्तं त्रपानता । गङ्गा रङ्गादथोत्थाय जनकाय व्यजिज्ञपत् ॥५१॥ सोऽपि पल्लवितप्रीतिः स्फीतान्योऽन्यानुरागयोः । तयोनिवर्त्तयामास पाणिग्रहमहोत्सवम् ॥५२॥ पाणिमोक्षोत्सवे लब्धहास्तिको हस्तिनापुरम् । सदारोऽथ सरोमाञ्चतनुः शान्तनुराययौ ॥५३॥ तत्र प्रेमानुरूपाणि स्फीतराज्योचितानि च । तौ दम्पती यथौचित्यं सुखान्यनुबभूवतुः ॥५४॥ अन्यदा निबिडस्थेमप्रेमबन्धस्य शान्तनोः । अन्तर्वत्नी बभौ पत्नी निधिगर्भेव काश्यपी ॥५५॥ धामैकधाम गङ्गाया गङ्गाया इव भास्करम् । गर्भमन्तर्दधानाया दुरालोकमभूद्वपुः ॥५६॥ महामहिम्नस्तस्याथ सा गर्भस्यानुभावतः । सुमेरुं कन्दुकं मेने पाथोनाथं च गोष्पदम् ॥५७।। सा मुहूर्ते शुभे सौम्यं सुखेन सुषुवे सुतम् । यत्प्रभान्यक्कृतैर्जातं दीपैश्चित्रगतैरिव ॥५८॥ तदा तन्नगरं सर्वं सोत्साहजनसङ्कलम् । बभूव केवलं शून्यप्रचारं चारकान्तरम् ॥५९॥ गङ्गाऽपत्यस्य गाङ्गेय इति सार्थकमर्थवित् । तस्यात्मजन्मनो नाम निर्ममे नृपसत्तमः ॥६०॥ भूपालं मृगयाऽऽरम्भगाढसंरम्भमन्यदा । मूर्द्धबद्धाञ्जलिर्गङ्गा सानुरागं व्यजिज्ञपत् ॥६१॥ प्रजाप्रियः प्रियन्यायः प्राणेश ! स्थामधामवान् । परोपकारी प्रज्ञावानस्ति कस्त्वादृशः क्षितौ ? ॥६२॥ १. प्राप्तहस्तिसमूहः । २. स्थेम(न्)स्थिरता । ३. गर्भिणी । ४. पृथ्वी । ५. तेजसामेकस्थानम् । ६. तेजस्वि । ७. कारागारमध्यम् । 15 20
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy