________________
पञ्चमः सर्गः । प्रभावतीमरणचिन्ता ॥ ]
स्वकीयैरिव विध्यायमानाः शोकाश्रुवारिभिः । धूमायमानाः सोऽपश्यत्कोटिशो रचिताश्चिताः ॥ २८४॥ सममश्रुजलोत्पीडैः कश्चिदर्घाञ्जलिं जनः । रवेरुदस्यन्नुत्पश्यः फाल्गुनेन विलोकितः ॥ २८५॥ जानन् जलमिव ज्वालां चितावह्निः कियानपि । लोकः प्रदक्षिणीकुर्वन् वीक्षितः सितवाजिना ॥ २८६॥ देवि ! तीर्णासि चेत्कृच्छ्रादपहारमहोदधिम् । किमिदानीं दशेयं ते विधेरहह वामता ॥ २८७॥
स्वर्लोकपथिकीं देवि ! राजापि त्वामनुव्रजन् । आनृण्यमिच्छति प्रीतेः का कथा मादृशां पुनः ? ॥२८८॥
देवि ! त्वद्विरहे प्राणाः क्षणं न स्थातुमीशते । ततस्तवैव सार्थेन प्रार्थयन्ति त्रिविष्टपम् ॥ २८९॥ एतावतो जनस्यास्य प्राणान् हर्तुमनाः समम् । कोऽप्यहिच्छद्मना मन्ये देवो दैत्योऽथवाऽऽगतः ॥२९०॥ निशम्येति परीवारपरिदेवितभारतीम् । कौन्तेयस्याभवत्कामं द्विधेव हृदयं तदा ॥२९१॥ तदुद्वीक्ष्य क्षणान्मर्मच्छेदमूर्च्छालमानसा । इत्यचिन्तयदुद्भूतदुःखभारा प्रभावती ॥२९२॥ हा विधे ! विदधे किं नु भवतेयं प्रभावती ? | विहिताऽपीयतः किं वा कृता दुःखस्य भाजनम् ? ॥२९३॥
प्रतारितस्तया दुष्टविद्यया तस्य पाप्मनः । कृतज्ञो मत्कृते प्राणान् प्रियस्तत्याज मे ध्रुवम् ॥२९४॥ तमनु प्रस्थिता नूनं सर्वेऽप्येतेऽनुजीविनः । शोषिते हि न पाथोधौ जीवन्ति जलजन्तवः ॥ २९५ ॥ तन्मे प्राणेश्वरः प्राप्तः किञ्चिदत्याहितं यदि । मङ्क्षु मोक्ष्यति तन्नूनं प्रभावत्यपि जीवितम् ॥ २९६ ॥
१. अपहार हानिः एव महासमुद्रस्तम् । २. प्राणत्यागरुपमनर्थम् ।
[ १८५
5
10
15
20
25