SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ प्रथमः सर्गः । मृगानुपदिकस्य शान्तनो र्गङ्गामेलापः ॥ ] निखिलव्यसनत्यागपवित्रस्यापि शान्तनोः । विवेकिनोऽप्यभूदेकं मृगव्ये व्यसनं परम् ||२४|| सोऽन्यदाऽनन्यसामान्यवेगमारुह्य वाजिनम् । दूरवर्धिष्णुपापद्धिबुद्धिर्मृगवनं ययौ ॥२५॥ तत्रैकं प्रेमरङ्गेण कुरङ्ग चाटुकारिणम् । दूरात्कुरङ्गमालोक्य सोऽधिज्यं विदधे धनुः ||२६|| स प्रेयसीं पुरस्कृत्य संत्रासतरलेक्षणाम् । पलायामास सारङ्गः कांदिशीकमनाः पुरः ||२७| स वल्लभानुरोधेन मन्दं मन्दं प्लुतोऽपि सन् । मनोऽभिराममारामं विवेश विवशाशयः ॥२८॥ बाणगोचरभूतेऽपि दृष्टिमार्गातिगे मृगे । विशति स्म तमारामं शरं संहृत्य शान्तनुः ॥२९॥ तत्र प्रासादमालोक्य समारुह्य च विस्मयात् । एकामालोकयामास स बालां सप्तमे क्षणे ||३०|| अभ्युत्थाय महीनाथमर्थ्यमर्ध्यादिपूँजया । सा सत्कृत्य यथौचित्यं स्वपल्यङ्के न्यवीविशत् ॥३१॥ विलोक्यानर्गलप्रेमरोमाङ्कुरकरम्बिताम् । [ ५ सुमुखीं संमुखासीनां भूपालस्तामभाषत ॥३२॥ कल्याणि ! काऽसि कस्यासि तनया विनयान्विता ? | प्रभातेऽम्भोजिनीवासि किंवा ? कस्माद्विकस्वरा ? ||३३|| इत्याकारेङ्गितज्ञेन राज्ञा हृष्टेन पृष्टया । ततो दृष्ट्या तयाऽऽदिष्टा वयस्यैवं व्यजिज्ञपत् ॥३४॥ विद्याधरपतिर्जह्वरस्ति रत्नपुरे पुरे । तस्य पुत्री पवित्राङ्गी सेयं गङ्गेति गीयते ॥ ३५ ॥ अन्यदाऽङ्कस्थितामेतां जह्वः स्नेहादवोचत । वत्से ! रूपानुरूपस्ते कीदृगालोक्यतां वरः ? ॥३६॥ १. विविशाशयः इत्यऽपि पाठः । २. उपरितनभूमौ । ३. पूज्यम् । ४. पाद - शौचादिविधिना । 5 10 115 20 25
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy