SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ in १०२] [पाण्डवचरित्रमहाकाव्यम् । दुर्योधनेन कृतः भीमस्य जले प्रक्षेपः ॥ तत्रापि प्रथमं निर्भीर्भीमो निःसीमविक्रमः । कीनाशपुरवास्तव्यः कर्तव्यः प्रसभं मया ॥१९४॥ व्यापादिते मयाऽमुष्मिन्युधिष्ठिरकिरीटिनौ । भवितारौ हठात्कृष्टस्तम्भप्रासाददुर्बलौ ॥१९५।। तदा नियुद्धसम्बन्धरजःपरिचयादिव । मलीमसामिमां सन्ध्यां चक्रे दुर्योधनो रहः ॥१९६।। ततश्छिद्राणि दुष्टात्मा भीमस्य स्वच्छचेतसः । नित्यमन्वेषयामास स नटः कूटनाटके ॥१९७।। परं विविधकेलीभिर्गङ्गायाः कूलपालिषु । समं सर्वैः कुमारैस्तैः सोऽपि चिक्रीड सर्वदा ॥१९८॥ कुमारान्क्रीडतस्तत्र विदित्वा सुतवत्सलः । भूपतिः कायमानानि कमनीयान्यकारयत् ॥१९९॥ क्रीडाशौण्डतया तेषु भुक्ति सुप्ति च ते व्यधुः । सर्वदाऽप्यधिकः किं तु भीमोऽभूद्भोजनादिभिः ॥२००॥ कूले परेधुर्गङ्गायाः सौगन्धिकसुगन्धिनि । सुष्वाप सिकतातल्पे केलिश्रान्तो वृकोदरः ॥२०१॥ आहारं मधुरं स्निग्धं तस्य भुक्तवतस्तदा । बभूव सुखनिद्राऽपि दीर्घनिद्राविजित्वरी ॥२०२॥ इदमन्तरमासाद्य दुष्टबुद्धिः सुयोधनः । भीमं बद्ध्वा लतापाशैः प्रचिक्षेप छलाज्जले ॥२०३॥ लतापाशान्बिसच्छेदं छेकश्छित्वा वृकोदरः । स्नात्वा क्षणेन गङ्गायाः करीन्द्र इव निर्ययौ ॥२०४॥ निद्रायमाणमन्येद्युस्तं तथैवाङ्गमर्मसु । धार्तराष्ट्रोऽतिधृष्टात्मा दन्दशूकैरदंशयत् ॥२०५॥ सकोपाः सफणाटोपा दंष्ट्रया गरलोग्रया । तीक्ष्णाग्रया दशन्तोऽपि बिभिदुस्ते न तत्त्वचम् ॥२०६॥ 15 20 25 १. यमः । २. बलात् । ३. तृणगृहाणि । ४. चतुरः । ५. सर्पः ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy