SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ अत्र शैल - श्रमरणयोः प्रन्नत्य - साम्येऽपि सज्जनानां कोमलत्वेन प्राधिक्यं प्रतिपादितम् । अतः व्यतिरेकालङ्कारः । १५ - विनोक्त्यलङ्कारः - "यत्र येन विना वर्णनीयवस्तुनि न्यूनता, प्राधिक्यं वा स्यात्, तत्र- विनोक्त्यलङ्कारः । " यथा "विद्या हृद्याऽपि सावद्या, विना विनयसम्पदम् । विना खर्लोविभात्येषा, राजेन्द्र ! भवतः सभा ॥ अत्र विनोक्त्यलङ्कारो वर्त्तते । १६ - "स्वभावतः एकार्थके वाक्ये अनेकार्थता श्लेषालङ्कारः।” ' सकृदुच्चरितः शब्दः सकृदर्थं गमयति' इति नियमेन काव्ये स्वरभेदादानात् यावन्तोऽर्थास्तावन्त एव शब्दा एक प्रयत्नेनोच्चार्यन्त इति नये युगपन्ना शब्दोच्चारणेऽपि तेषां भेदोपलम्भो न भवति । तत्रापि प्रकरणादिनियमाभावादनेकार्थानां अभिधयैव बोधः । प्रकरणादिनियमसत्वे तु एकस्याभिधया परस्य व्यञ्जनयेति मतमाश्रित्येदं लक्षणम् । एवं चैकप्रयत्नोच्चार्यत्वेन लुप्तभेदानां वर्णादीनां मेलकः श्लेषः । साहित्यरत्नमञ्जूषा - १९५
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy