SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ उभयात्मको यथामाघेन विनितोत्साहा, नोत्सहन्ते पदक्रमे । स्मरन्ति भारवेरेव, कवयः कपयो यथा ॥१॥ ॥ इति शब्दालङ्काराः ।। ॥ अथ अर्थालङ्काराः ॥ अर्थालङ्कारेषु उपमायाः महत्त्वं विशेषेण वर्त्तते । सादृश्यमूलेषु सादृश्यप्रतिभोत्थापितेषु स्मरणादिषु लक्षितव्येषु तेषां सादृश्यमूलालङ्काराणां उत्थापकत्वेन प्राधान्यात् प्रथमे उपमालङ्कारः निरूपणं विधीयते । उपमायामुपमेयोपमानस्य साधारणो धर्मः उपमा वाचकश्चेति चत्वारः पदार्थाः । तत्र साधारणधर्मत्वेन प्रसिद्धः पदार्थः उपमानम् । तद् धर्मतया कविसंरम्भगोचरः उपमेयम् उत्कृष्टगुणवत् तया संभाव्यमानमुपमानम्, अपकृष्ट-गुणवत्तया संभाव्यमानं उपमेयम् । अर्थात्-सादृश्यप्रतियोगी उपमानं सादृश्यानुयोगी उपमेयम् । उपमानोपमेययोः संगतो धर्मः साधारणः कथ्यते । यस्य धर्मस्य सम्बन्धाद्य न सह यद् उपमीयते स साधारणधर्मः तदुपमानं तच्चोपमेयम् । यथा- "श्रीपार्श्वस्य पादौ कमलौ इवास्तः" अत्र मनोज्ञत्वधर्म कोमलत्वधर्म सम्बन्धात् साहित्यरत्नमञ्जूषा-१८४
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy