SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ अन्यश्चोदाहरणं यथापालोलकमले चित्ते, ललामकमलालये । पाहि चण्डि! महामोह-भङ्गभीमबलामले ॥१॥ [इति श्रीवाग्भट विरचिते काव्यानुशासने प्रोक्तमिदम्] अत्र संस्कृतम्, प्राकृतम्, मागधी, पैशाचिकी, शौरसेनी, अपभ्रशा- इति षण्णां भाषाणां योगः अस्ति । (५) श्लेषः- "अनेकार्थपर्यवसितैरेकविधैरेव शब्दैरनेकार्थाभिधाने श्लेषालङ्कारः ।" नानार्थक शब्दजन्यानेकार्थाभिधानत्वं श्लेषत्वम् । यथा- “सकलप्रदो माधवः पायात् संयोगं गामदीधरत् ।” कुवलयानन्दे सामान्यलक्षणं वरिणतम्, नानार्थसंश्रयश्लेषो वर्ष्यावर्योभयमिश्रितः । अत्रोदाहरणे यथा - सकलप्रदो माधवः पायात, योऽगं पर्वतं गोवर्धनाख्यं गां भूमि च दधावित्येकोऽर्थः अन्यश्च सर्वदा सदा उ माधव शिवः पायात् यो गङ्गां दधौ इति द्वितीयोऽर्थः । द्विविधस्याप्यर्थस्य अत्र प्रतीति अभिधया वृत्या एव भवति । स च श्लेषो द्विविधः शब्दगतोऽर्थगतश्च । तत्र च शब्दगतो वर्ण- पदलिङ्ग- भाषा- विभक्ति- प्रकृति- प्रत्यय- वचनभेदाद् अष्टधा । सभङ्गः, अभङ्गः, उभयात्मकश्चेति पुनः स त्रिविधः । साहित्यरत्नमञ्जूषा-१८२
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy