SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ एवं काव्यप्रकाशमतेन रसोपकारकत्वे सति तदवृत्तित्वं तथात्वे सति रसानियतास्थितित्वम् , अनियमेन रसोपकारत्वमिति लक्षणत्रितयं फलितम् । कुवलयानन्देऽलङ्कारचन्द्रिकायाञ्चालङ्कारलक्षणं यत् निरूपितं यथारसवदादिभिन्नव्यङ्गयभिन्नत्वे सति शब्दार्थान्यतरनिष्ठाया विषयिता सम्बन्धावाच्छिन्ना चमत्कृतिजनकतावच्छेदकता तदवच्छेदकत्वमलङ्कारत्वमिति । अस्माकं मतेऽपि वैद्यनाथेन परिष्कृत्य अलङ्काराणामिदं लक्षणं प्रोक्तम् । अस्माकं मतेऽपि अनुप्रासादिविशिष्टशब्दज्ञानमुपमादि विशिष्टार्थज्ञानं चमत्कृतिजनकम्, तेन तयोश्चमत्कृतिजनकता वर्तत एव । तदवच्छेदकता चानुप्रासोपमादिविशिष्टशब्दार्थयोवर्तते। अत्र चानुप्रासोपमादयो विशेषणीभूता इत्यस्माकं मतम् । चमत्कृतिजनकावच्छेदकता च शब्दार्थयोः विषयतासम्बन्धेन वर्तत, इति विषयता-सम्बन्धोऽयं चमत्कृति-जनकतायाः अवच्छेदकः । चमत्कृतिजनकतावच्छेदकता च शब्दार्थान्यतरनिष्ठविषयता सम्बन्धावच्छिन्ना वर्तते । तेन शब्दार्थान्तरनिष्ठा विषयतासम्बन्धावच्छिन्ना या चमत्कृतिजनकतावच्छेदकता तदवच्छेदकत्वमलङ्कारत्वमिति ममाऽपि सिद्धान्तम् । साहित्यरत्नमञ्जूषा-१७४
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy