SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ पुनरुक्तत्वं, दुष्क्रमत्वं, ग्राम्यत्वं, सन्दिग्धत्वं अनौचित्यत्वं, प्रसिद्धविरुद्धत्वमित्यादयः । ये च दोषान् निवारयन्ति ते 'दोषाङ्कुशं ' भवन्ति । अर्थात् येन दोषाः गुणा भवन्ति, निर्दोषाः भवन्ति सः दोषाङ्कुशः । यो हि त्रिधा भेदैः । दोषाङ्कुशभेदत्रयमाह(१) दोषं गुणतां तनुते, (२) दोषं निर्दोषं करोति, (३) दोषाणां ग्राह्यत्वं विदधाति च । एते त्रयः भेदाः अर्थात् दोषे गुणत्वं दोषे निर्दोषत्वं दोषे उपादेयत्वम् तृतीयो भेदः । , ॥ इति दोषनिरूपणम् ॥ ॥ अथ रीतिनिरूपणम् ॥ शरीरिणोऽवयवसन्निवेश इव रसोपकर्त्री सुप्तिङात्मकपदसंयोजनात्मिका 'रोतिः' । यथा शरीरेऽवयवसन्निवेशः तथैव रसोपकर्त्री सुप्तिङात्मकस्वरूपा रीतयः । रीतिविषये श्रीवामनाचार्यः रीतिप्राधान्यं स्वीकरोति । 'रीति रात्मा काव्यस्य । विशिष्टा पदरचना रोतिः' । साच 'वैदर्भी, गौडी, पाञ्चाली' इत्यनेन तिस्रो रीतयः श्रीवामनाचार्य मते कथिताः । लाटीरीतिरधिका श्रीरुद्रमते कथिता । श्रीभोजराजमते अवन्ती मागधीसहिताः पूर्वोक्ताः षट्रीतयः कथिता एव । साहित्यरत्नमञ्जूषा - १६२
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy