SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ विहाय जहल्लक्षणयाऽर्थान्तरे परिणमति, तत्र अत्यन्त - तिरस्कृतवाच्यः लक्षणामूलो ध्वनिः । अत्र वाच्यार्थ - स्यात्यन्ततिरस्कृतत्वाद् अत्यन्ततिरस्कृतवाच्यत्वमिति । यथा रविसंक्रान्त सौभाग्य स्तुषारावृतमण्डलः ॥ निश्वासान्ध इवादर्श चन्द्रमा न प्रकाशते ॥ १ ॥ श्लोकेऽस्मिन् अन्धत्वं सचेतने एव सम्भवतीति । तदर्थं परित्यज्य सर्वथैव अन्धशब्दो लक्षणया अप्रकाशरूपं अर्थं बोधयति । तथा अप्रकाशातिशयोऽपि व्यङ्गयः । अभिधा मूलत्वं नाम यत्र वाच्यार्थस्य मुख्यार्थत्वं भवति तत्रैव प्रभिधामूलो ध्वनिर्नाम | स च द्वौ भेदौ । असंलक्ष्यक्रमवाच्यः, संलक्ष्यक्रमवाच्यश्च ेति । तत्र असंलक्ष्यक्रमवाच्यो रसभावादिरूपः रसभावादिव्यङ्गयप्रतीतेः क्रमिकत्वेऽपि क्रमस्य दुर्बोध्यत्वात्, असंलक्ष्यक्रमत्वमिति असंलक्ष्यक्रमवाच्यः । साहित्यरत्न मञ्जूषा - ११८
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy