SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ सिंहविक्रान्तदण्डकस्य लक्षणमाह___"यकारैः कवीच्छानुरोधान्निबन्धैः प्रसिद्धो विशुद्धोऽपरोदण्डकः सिंहविक्रान्तनामा ।" कवेः इच्छानुसारं स्थापितैः गणैः सिंहविक्रान्तनामकोऽन्योविख्यातः शुद्धो दण्डको भवति । तस्योदाहरणं यथायदीयं यशः सुप्रसिद्ध विशुद्धं सदागाररूपं सुधर्मादि सेव्यं मुनीनां समाजे । सदा वीतरागं विशालं प्रकामं गरिणगौतमादि प्रदिष्टं निकामं निरीहम् ॥ बुधैः शंसितं संश्रितं साधुभिश्च प्रभक्तः सुरक्तः सुशीलैः सुबुद्धैः सदा पूजितं वै । गुणातीतरूपं सदानन्दशीलं सुधीरं सुवीरं सुतीर्था धिनाथं जिनेन्द्रं नमामि ॥१॥ अशोकमञ्जरी नाम्नो दण्डकस्य लक्षणमाह "स्वेच्छया रजौ क्रमेण सन्निवेशपत्युदारधीः कविः सदण्डकः स्मृतो जगत्यशोकमञ्जरी।" उदारबुद्धिः कवियदि यदृच्छया यथाक्रमं रगण-जगणी छन्दे स्थापयति तत्र अशोकमञ्जरी नाम दण्डकः भवति । साहित्यरत्नमञ्जूषा-८६
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy