SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ द्वितीयपरिच्छेदे च कवेः शिक्षा च कीदृशी ?' अत्र छन्दसां ज्ञानाय प्रचलितवृत्तानां विषमवृत्तानां दण्डकवृत्तानाञ्च सोदाहरणं लक्षणं गणनिर्देशपूर्वकं सुतरां सरलीकृत्य प्रदर्शितम् । तृतीयपरिच्छेदे 'कश्च काव्ये चमत्कारः ?' नवरसाणां रसाभास-भावाभासयोवर्णनं सोदाहरणं स्फुटीकृतम् पश्चात् तु समासेन ध्वनिकाव्यस्यापि वर्णनं प्रस्तुतम् । चतुर्थपरिच्छेदे-'काव्यस्य गुण-दोषादयश्च के ?' अस्मिन् काव्यगुणानां दोषाणां रीतीनां अलङ्काराणाञ्च वर्णनं विशदीकृतम् । पञ्चमपरिच्छेदे-'कवेः कः सम्प्रदायः ?' अत्र कवीनां मान्यतानुरोधेन – सजातानां षण्णामपि कविसम्प्रदायानां प्रामाणिकं वर्णनं कृतम् । अन्यच्च कविसम्प्रदाये प्रसिद्धानां समयवर्णनानां, अङ्कादिलेखनपद्धतीनां समावेशोऽपि कृतः । 'निरङ्कुशाः कवयः' इत्युक्ति स्फुटीक कविसम्प्रदाये प्रसिद्धानामुक्तीनामपि प्रदर्शनमिहैव प्रत्यपादि। एवञ्चायं 'श्रीसाहित्यरत्नमञ्जूषा' नामको ग्रन्थः पञ्चभिरेव परिच्छेदैः सम्पूर्णतामाप्नोति । जिज्ञासवः जनाः पिपठिषवोऽस्य परिशीलनेन ( १२ )
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy