SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ * छन्दसां भेदः ॐ छन्दसां भेदो द्विधा भवति । मात्रिको वणिकश्चेति । तत्र मात्रिक-मात्राछन्दसि मात्राणां संख्या निश्चितमेव वर्तते। तथा वणिकछन्दसि वर्णानाम् अक्षराणां संख्या निश्चितमेव वर्त्तते । वणिकछन्दसः संस्कृते वणिकवृत्तमपि कथ्यते । मात्रिक-वणिकद्वयोरपि छन्दसोः पुनः सम-विषमपदानां सम्बन्धाद् विधा त्रिधा भेदाः भवन्ति । तथाहि(१) मात्रिकसमछन्दः, (२) मात्रिकार्द्धसमछन्दः, (३) मात्रिकविषमछन्दश्च । तथैवम् (४) वणिकसमछन्दः, (५) वर्णिकार्द्धसमछन्दः, (६) वर्णिकविषमछन्दश्चापि । (१) मात्रिकसमछन्दः-यस्य छन्दसश्चतुर्षु चरणेषु मात्राणां संख्या समाना भवति, सः 'मात्रिकसमछन्दः' कथ्यते । यथा-चौपाई, हरिगीतिका प्रमुखाः । (२) मात्रिकाद्धसमछन्दः-यस्य छन्दसः प्रथमतृतीययोश्चरणयोः तथा द्वितीय-चतुर्थयोश्चरणयोः मात्राणां संख्या समानं भवति, सः 'मात्रिकाद्धसमछन्दः' कथ्यते । यथा-दोहादयः। साहित्यरत्नमञ्जूषा-२३
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy