SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ तथापि मत् प्रयासेन अनधीतेऽपि प्रौढग्रन्थे काव्यशास्त्रसर्वाङ्गीणः चञ्चुप्रवेशो ज्ञानञ्च सम्भवः सुकुमाराणाम् । संस्कृतसाहित्यार्णवोऽपारोऽगम्यो रचना - वैचित्र्यश्चित्रितश्च सर्वत्र शोभामुत्पादयति । अनेके रससिद्धाः कवीश्वराः काव्यकलापटीयान्सः कविताकामिनीविलासाय सुहासाय च नवरसरुचिराणि महाकाव्यानि रचितवन्तः । सुप्रसिद्धपण्डितेषु श्रीकालिदासस्य श्रीभारवेः श्रीदण्डिनः श्रीमाघस्य च काव्यानन्दमनुभवद्भिः विशेषतः प्रतिपादितं यत् - उपमा कालिदासस्य, भारवेरर्थगौरवम् । दण्डिनः पदलालित्यं, माघे सन्ति त्रयो गुरणाः ॥१॥ अन्ये नैषधे पदलालित्यमित्यपि सङ्गिरन्ति । 'नैषधं विद्वदौषधं वेति ।' प्रस्तुतस्य 'श्रीसाहित्यरत्नमञ्जूषा' नामकस्य नूतनग्रन्थस्य रचनाया उद्देश्यं तावत् एतदेव यत् पिपठिषूणां सुकुमारमतीनां कृते साहित्यशास्त्रस्य सारल्येन सर्वाङ्गपूर्ण झटिति बोधः स्यादिति । लाक्षणिकानां लोकविश्रुतानां काव्यानुशासन-काव्यप्रकाशादीनामध्ययनं विशिष्टपरिश्रमापेक्षित्वात् समयाभावाद् वा कदाचित् न भवेत् तदापि ( १० )
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy