SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ तेष्वाद्यः देवताराधनजन्यत्वेन वा साधनमन्त्रतन्त्रोपासनाभिः समुत्पन्नः ? यत्-हेतुश्च येन कवित्वसम्प्राप्तिर्भवति । सो हि दिव्यप्रयत्नोत्पन्नः प्रयत्नः प्रथमः । द्वितीयो हि भवभवान्तरपूर्वसंस्कारजन्यः [जन्मान्तरसंस्कारजन्यः] कवित्वहेतुः । तृतीयश्च ऐहिकप्रयत्नोत्पन्नः [लौकिकप्रयत्नलभ्यः] कवित्वहेतुः । तत्र हि, दिव्यसाधना-मन्त्र-तन्त्रादिभिः उपलभ्या कवित्वसंप्राप्तिः । मन्त्राणां बीजमन्त्रादिजापादिभिर्वा, यथा-“ऐं" प्रभृतिः। बीजमन्त्रादिजापेन नियतावधिसमये तप-जपादिविधिना साधयितु साधको अहर्निशं तप्यति ध्यायति वा तन्मयोपासनां करोति । तेनाविर्भता सिद्धि जायते । यथा-(१) “ऐं' काराभिधमन्त्रजापेन कवित्वावाप्तिः न्यायविशारद-न्यायाचार्यश्रीमद्यशोविजयवाचकवराणाम् । तथा च तेषामेव सूक्त प्रोक्त श्रीमहावीरस्तवापरनामखण्डनखण्डखाद्ये । "ऐं" कारजापवरमाप्य कवित्ववित्त्व वाञ्छासुरद्रुमुपगङ्गमभङ्गरङ्गम् । सूक्त विकासिकुसुमैस्तववीरशम्भो रम्भोजयोश्चरणयोर्वितनोमि पूजाम् ॥ १ ॥ (२) परमाहतोपासक श्रीकुमारपालभूपालप्रतिबोधक साहित्यरत्नमञ्जूषा-५
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy