SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ # अथ षष्टः सर्गः ॥ न जातरूपच्छदजातरूपता न कङ्कणाद्याभरणैरलंकृतिः । मुमुक्षुणा कापि विधीयतां धिया स्वजातरूपैकसिचा भवडुचा ॥१॥ वेदन स्वरागादपि वैभवस्थिति र्द्विजस्य दृष्टेयमिति स्तुवन् मुहुः । विनिश्विकायैष हि वै भवस्थितिं निजां जराजन्मकृताधिसंस्थिताम् ॥२॥ मुखेऽपि नालीकरुचिर्महात्मनां न संशयो वा न पैराशनाशयः । अवादि तेनाथ समानसौकसा १ स्वस्मिन् जातं रूपं तदेव एकं सिग यस्य तेन; भवन्ती रुक् कान्तिर्यस्य स तेन । २ यः कश्चिद् रागात् = स्नेहाद् द्विजस्य = ऋषेः वैभवस्थितिं वदन्; यद्वा, इयं वैभवस्थितिर्दृष्टा इति स्तुवन् वै= निश्चितं निजां भवस्थितिं विनिश्चिकाय । ३ पराशनं = हिंसा । ४ समाना = सज्ञाना तुल्या वा ये सौकसः = श्रगारिणस्तेषामुपाश्रयन्ती या संसत् = सभा तस्याम् अर्हता इत्यवादि ।
SR No.023195
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorHargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year1918
Total Pages190
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy