SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ १२४ शान्तिनाथचरित्रस्वकाव्यभाव्यन्वयरञ्जिनं जिनम् ॥४१॥ वनेचरैः सार्धमुपात्तकिंशुकाः शुका विमुक्ताः पटवस्तमस्तुवन् । तथा यशोभिर्विशदीकृताशय र्यथा प्रशस्याः सकृपैर्नृपैरपि ॥४२॥ विभोः स्वशीलश्रुतिशालितालिभिः समं निवृत्ताः सुरतेभिसारिकाः । खरामृतेनोपजगुश्च सारिका गृहे गृहे तच्चरितस्य कारिकाः ॥४३॥ सुरानुवृत्त्याऽप्सरसो रसोर्मिभि__ स्तरङ्गिताङ्ग्यः प्रभुवृत्तनतने । विभावयन्ति स्म सुविस्मयं हरे स्तथैव तत्पौरुषगायनीकृताः ॥४४॥ इतीष्टगन्धाढ्यमटन्नसौ वनं. वधूतमाधूतमनाः स्वयौवनम् । त्रिवर्गसंसर्गनिसर्गसाधुधीः १ विभोः शीलश्रुत्या शालिताः शोभिता या प्रालयस्ताभिः समम् । २ कारिकाः श्लोकविशेषाः ।
SR No.023195
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorHargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year1918
Total Pages190
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy