SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ तृतीयः सर्गः । ૧૯૩ नृणां विपेत्राय ददौ प्रेभाभरम् ॥ १०५ ॥ कृपाणरत्नं कृपणे कृपाधनं पुनः पुनर्मूर्च्छ च तापमृच्छ च । द्विषे मिषेण स्वकराकरस्य यदितीव नित्यं समुपादिशत्प्रभोः ॥ १०६ ॥ धृतं पदं वार्धकिरत्नयत्नतो मृषाकरोद भूरिकृतोपभोगदम् । इतीव पान्थं शपतः पिकान् द्विजान् क यासि हित्वा वनिता नितान्तमुक् ॥१०७॥ यथेष्टदानेन विशिष्टशिष्टधीः स्वसैन्यजन्ये शिबिरे पापदे । १ विपदस्त्रायत इति विपत्त्रं तस्मै । २ स्वोपरिधररोन छत्राय प्रभादानं, स्वप्रभाया आधिक्यात् । ३ कृपाणरत्नं कृपणे=दीने कृपाधनं = कृपामयम् ; द्विषे = रिपवे त्वं मूर्च्छ तापं वा ऋच्छ = प्रामुहि, इत्युपादिदेशेव । ४ किं० पदं भूरिणा स्वर्णेन कृता ये उपभोगास्तेषां दायकम् । ५ 'हे पान्थ ! त्वं वनितानितान्तमुक् क्व यासि ?' इति पान्थं शपतः पिकान् वा द्विजान् = गमनवारकदैवशांश्च वार्धकिकृतं पदं स्थानं मृषाऽकरोत् ; किमर्थ वारणं क्रियते, स्थानलोभादेव न यास्यतीति भावः । ६ सः = राजा शिबिरे प्रपायाः स्थाने पथिकान कयापि रीत्या दैन्यतः सखेदं यथा स्यात्तथा लोहितेक्षणान् न ऐक्षिष्ट ।
SR No.023195
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorHargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year1918
Total Pages190
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy