________________
मञ्जुला
यः सुविधिः स स्वभावेन हीमवच्छीतलः अशीतलस्य शोभनविधित्वाभावादिति सम्बन्धादायातस्य श्रीशीतलनाथस्वामिनः स्तुतिर्जल्प्यते ।
धधधमिति ।
ध ं धः = इन्द्रः → धः पुंसीन्द्रे ← [ ४३ ] इति नानार्थरत्नमालेरुगपदण्डाधिनाथरचिता, तस्य सम्बोधने, हे ध ! त्वं शीतलम् = श्रीशीतलस्वामिस्वामिनम् जिनम् = तीर्थकरम् शेवस्व = सेवस्व सेवते जुषते चापि शेवते ← [क्षत्रियचेष्टावर्ग:-१३] इत्याख्यातचन्द्रिका भट्टमल्लप्रणीता, इति क्रियाकारक
सण्टङ्कः ।
कीदृश भोध ? ध ! धः = : धार्मिकः धः पुंसि धार्मिके ← [ ८६ ] इत्येकाक्षरीनाममाला कालिदासव्यासनिर्मिता, सम्यग्दृष्टित्वात् श्रद्धासंपन्नत्वाच्च, तस्य सम्बोधने, पुनः कीदृश भो ध ! ? ध ! धः = धीरः धो धीर: ← [२७] इत्यनेकार्थतिलकः सचिवमहीपविरचित:, सुरगुरुत्वात्, तस्य सम्बोधने । अत्र ‘शेवस्व’ इति क्रियापदम्, कः कर्ता ? ' त्वम्' अध्याहृतमिदं पदम्, कं कर्मतापन्नम् ? ' शीतलम्', कीदृशं शीतलम् ? 'जिनम्', किं सम्बोधनम् ? 'ध', 'ध ! ध !' इति तु तस्य विशेषणे, अपराणि सर्वाणि श्रीशीतलनाथजिनस्य विशेषणानि ।
कीदृशं श्रीशीतलं जिनेश्वरम् ? धधधधम् धाः = सानव: विद्वांस इत्यर्थः → धकारः पुंसि कथित: सानौ ← [ ७३] इत्येकाक्षरशब्दमालाऽमात्यमाधवकृता, धः = वादः विवाद इत्याशयः, धः = वह्निः धश्चाश्वाधारभूतेऽपि वह्नौ वादे ← [७१] इत्येकाक्षरनाममालिका विश्वशम्भुप्रणीता, धः = घनः [ध: ] श्रीशीतलनाथस्तुति:
७३