SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ थञ्चेति थथम् = बहुलकर्म तदेव थ इति थथथस्तस्य थो यस्मात् स थथथथ: = भूरिकर्मभूधरभङ्गकारक: जिनस्य वज्रायमाणत्वात्, तम् । पुनः कीदृशम् ? थम् - थ: = विमल: → थोऽव्यये कुञ्जरे काले क्लीबे भयनिवारणे वाच्यलिङ्गस्तु विमले - [७९/८०] इत्येकाक्षरीनाममाला कालिदासव्यासकृता, विकारविचारमलविरहितत्वात्, तम् । पुन: कीदृशम् ? थथम् - थम् = स्तोकम् → थं स्तोकार्थे नपुंसकम् * [६४] इत्येकाक्षरनाममालिका विश्वशम्भुनिर्मिता, थम् = कर्म → थं विषं कर्म - [६१] इत्येकाक्षरनाममाला सौभरिरचिता, थं थं यस्य स थथ: = कृशका अल्पकर्मेत्यर्थः, आसन्नसिद्धेः, तम् । पुनः कीदृशम् ? थथम् + थ: = शोक: → थो मिथ्यावाचके श्रान्ते शोके - [६४] इत्येकाक्षरनाममालिका विश्वशम्भुप्रणीता, थम् = रक्षणम् → थम्-नपुंसके रक्षणे - [भा.२,पृ.११४३] इति शब्दार्थचिन्तामणि: सुखानन्दनाथकृत:, थात् थं यस्मात् स थथ: = शोकरक्षकः, तम् । पुन: कीदृशम् ? थथथम् - थ: = २.र: → स्मर: शौरी चापि विशालाक्ष: थकार: परिकीर्तित: - [३५] इत्येकाक्षरीमातृकाकोषोऽज्ञातकृतः, थः = कुञ्जर: हस्तीत्यर्थ: → थोऽव्यये कुञ्जरे - [७९] इत्येकाक्षरीनाममाला कालिदासव्यासप्रणीता, थ: = सिंहः → थ: पुमान् सिंहकल्लोलबिरामेषु - [६७] इत्येकाक्षरशब्दमालाडमात्यमाधवविरचिता, थ एव थ इति थथस्तत्र थ इव य: स थथथ: = स्मरस्तम्बरमसिंहः कामारिजेतृत्वात्, तम् । पुन: कीदृशम् ? थथम् - थम् = सितम् → त्रिलिङ्ग्यां तु थकारोऽसौ सिताऽसितपृथुष्वपि - [६९] इत्येकाक्षरशब्दमालाऽमात्यमाधवरचिता, थम् = रक्तम् शोणितमित्यर्थः → थंकारं तु परा शक्ति: रक्तम् + [३२] इत्येकाक्षरनाममालाऽज्ञातविद्वत्कृता, थं थं यस्य स थथम् = शुक्लशोणित: आर्हतातिशयात्, तम् । पुन: कीदृशम् ? थथम् ® थ: = गिरिः → थो भीत्राणगिरिव्योम्नि . [११] इति नत्वादि-एकाक्षरीनाममालाऽज्ञातनिर्मिता, थ: = शब्द: → चारनाल शब्देषु सन्मिषया परिमार्जनकल्पविरामेषु च थकार: 6 [३१] इत्यजिरादि[थः] श्रीचन्द्रप्रभस्वामिस्तुतिः ६३
SR No.023185
Book TitleJinendra Stotram
Original Sutra AuthorN/A
AuthorRajsundarvijay
PublisherShrutgyan Sanskar Pith
Publication Year2011
Total Pages318
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy