________________
मञ्जुला
यः सुपार्श्व: स चन्द्रप्रभ: (चन्द्रा = सुन्दरा प्रभा यस्य स) इति सम्बन्धादायातस्य श्रीचन्द्रप्रभस्वामिनः स्तुतिरुच्यते ।
थथं थथथथमिति ।
अहं चन्द्रप्रभम् = श्रीचन्द्रप्रभस्वामिनम् नमामि = वन्दे प्रह्वत्वे तु णमं स्यात् ← [२-८३] इति कविकल्पद्रुमः श्रीहर्षकुशलगणिप्रणीत:, इति क्रियाकारकयोजना, कीदृशोऽहम् ? थथ: - थम् = कर्म → थं विषं कर्म ← [ ६९ ] इत्येकाक्षरनाममाला सौभरिरचिता, थः = श्रान्त: → थो मिथ्यावाचके श्रान्ते ← [ ६४ ] इत्येकाक्षरनाममालिका विश्वशम्भुप्रणीता, थेन थ इति थथः = कर्मणा श्रान्तः कर्मफलोपभुञ्जन्नतीवदुःखीत्यर्थः ।
अत्र ‘नमामि' इति क्रियापदम्, कः कर्ता ? ' अहम्', कं कर्मतापन्नम् ? ‘चन्द्रप्रभम्’, ‘थथः’ कर्तुर्विशेषणम्, अन्यानि श्रीचन्द्रप्रभस्वामिनो विशेषणानि ।
कीदृशं श्रीचन्द्रप्रभम् ? थथम् थः = स्मरः स्मरः शौरी चापि विशालाक्ष: थकारः परिकीर्तितः ← [३५] इत्येकाक्षरीमातृकाकोषोऽज्ञातनिर्मितः, थः = : सित: श्वेतवर्ण इत्यर्थः त्रिलिङ्ग्यां तु थकारोऽसौ सिताऽसि पृथुष्वपि ← [ ६९ ] इत्येकाक्षरशब्दमालाऽमात्यमाधवकृता, थ इव थ इति थथः = स्मरवत् श्वेतः अत्यन्तस्वरूपवानित्यर्थः, तम् ।
पुनः कीदृशम् ? थथथथम् - थम् = बहुलम् थम् = कर्म → थं विषं कर्म बहुलम् ← [६१] इत्येकाक्षरनाममाला सौभरिरचिता, थः = गिरि: थः पुंस्यूर्मिगिरीन्दुषु ← [४०] इत्येकाक्षरकाण्ड इरुगपदण्डाधिनाथनिर्मित:, थः = भङ्गः → थः पुंसि भङ्गे ← [ ४६ ] इत्येकाक्षरकाण्डः कविराघवप्रणीतः, थञ्चेदं [थ: ] श्रीचन्द्रप्रभस्वामिस्तुतिः
६१