SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ स्वार्थी चेति न च तीर्थकृत् स्वार्थी किन्तु परमार्थ्येव प्राप्यते च प्रजाभिस्ततः पुण्यप्रकर्षत्वमित्येव व्याचिख्यासुराह । पुनः कीदृशम् ? तततम् P स्यात् ततम् = विस्तृतम् तम् = पुण्यम् यस्मात् स ततत: = विस्तृतपुण्यप्रदायकः महादानेश्वरत्वात्, तम् 1 पुनः कीदृशम् ? तम् त: = शान्तः तः प्रेते निष्फले शाते (शान्ते) ← [६०] इत्येकाक्षरनाममालिका विश्वशम्भुकृता, क्षमाशीलत्वात्, तम् । पुनः कीदृशम् ? ततततम् '' तः = कोप: → तः पुंसि कोपे ← [ ४४ ] इत्येकाक्षरकाण्डः कविराघवरचित:, तम् = तृणम् तं तृणम् ← [ ५९ ] इत्येकाक्षरनाममाला सौभरिविहिता, ततः = वायुः ततः त्रिषु वायौ ← [भा. २, पृ.१०४०] इति शब्दार्थचिन्तामणिः सुखानन्दनाथप्रणीत:, त एव तमिति ततम् तत्र तत इव य इति तततत: = कोपकृशकम्पाकः क्षमावर्षित्वात्, तम्, स्वकीयस्य तु निष्क्रोधित्वं पूर्वं शान्तत्वेनोक्तमत्रान्यदेहिनां कोपमनयतीति व्याख्यातम्, प्रभञ्जनप्रभावाद् यथा तृणं दूरं याति तथैव जिनवरप्रभावाज्जीवानां क्रोधोऽपि दूरातिदूरं याति शून्यतामवाप्नोतीति भाव: । पुनः कीदृशम् ? तततम् तम् = कर्म नपुंसके तु तं तूणे कर्मार्थसूचकार्थयोः ← [७५] इत्येकाक्षरीनाममाला कालिदासव्यासकृता, त: = ताप: तस्तापामर्षदस्युषु ← [११] इति नत्वादि - एकाक्षरीनाममालाऽज्ञातप्रणीता, तः = अमृतम् → तश्चौरामृतपुच्छेषु ← [ २३५८ ] इति वाङ्मयार्णवः रामावतारशर्मप्रणीतः, तस्य तो यस्य स ततस्तत्र त इव य इति तततः = कर्मणा दग्धस्योपशान्ती पीयूषतुल्यः, तम् । - पुनः कीदृशम् ? ततम् त: करुणा करुणासु धातुर्वादविधावपि तः स्याद् ← [३०] इत्यजिरादि- एकाक्षरीनाममालाऽज्ञातप्रोक्ता, तः = चेतः → तकारः कथितचौर: (चेतः) ← [२०] इत्यभिधानादि एकाक्षरीनाममालाऽज्ञातग्रथिता, तस्ते यस्य स ततः करुणाचित्तः परमकृपालुत्वात्, तम् । करुणायुक्तस्यैव चेतसो नीरवन्नैर्मल्यम्, तदाह । पुनः कीदृशम् ? ततम् ं तम् = जलम् इत्येकाक्षरनाममाला सौभरिनिर्मिता, तः = चेतः [तः ] श्रीसुपार्श्वनाथजिनस्तुतिः ५७ तं तृणं जलमेव च ← [ ५९ ] तकारः कथितश्चौर : ( चेतः)
SR No.023185
Book TitleJinendra Stotram
Original Sutra AuthorN/A
AuthorRajsundarvijay
PublisherShrutgyan Sanskar Pith
Publication Year2011
Total Pages318
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy